________________
नवमं परिशिष्टम् ]
[९७ आसीच्चण्डपमण्डितान्वयगुरुर्नागेन्द्रगच्छश्रियश्चूडारत्नमयत्नसिद्धमहिमा सूरिर्महेन्द्राभिधः । तस्माद्विस्मयनीयचारुचरितः श्रीशान्ति(*)[सूरिस्त]तोप्यानन्दा-ऽमरसूरियुग्ममुदयच्चन्द्रार्कदीप्रद्युति ॥६९॥ श्रीजैनशासनवनीनवनीरनाहः, श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः। 5 विद्यामदोन्मदगदेष्वनवद्यवैद्यः, ख्यातस्ततो विजयसेनमुनीश्वरोऽयम् ॥७०॥ गुरो[स्त] (*)स्या[शि]षां पात्रं, सूरिरस्त्युदयप्रभः । मौक्तिकानीव सूक्तानि, भान्ति यत्प्रतिभाम्बुधेः ॥७१॥ एतद्धर्मस्थानं, धर्मस्थानस्य चास्य यः कर्ता । तावद् द्वयमिदमुदियादुदयत्ययमबुंदो यावत् ॥७२।। श्रीसोमेश्वरदेवश्चलुक्यनरदेवसेवितांहि(*)युगः । रचयाञ्चकार रुचिरां, धर्मस्थानप्रशस्तिमिमाम् ॥७३॥ श्रीनेमेरम्बिकायाश्च, प्रसादादर्बुदाचले ।
वस्तुपालान्वयस्यास्तु , प्रशस्तिः स्वस्तिशालिनी ॥७४।। सूत्र० केल्हणसुतधांधलपुत्रेण चण्डेश्वरेण प्रशस्तिरियमुत्कीर्णा । (*) 15 श्रीविक्रम[संवत् १२८७ वर्षे] फाल्गुण वदि ३ रवौ श्रीनागेंद्रगच्छे श्रीविजयसेनसूरिभिः प्रतिष्ठा कृता ॥
(६५) ॥ र्द ॥ ॐ नमः [सर्वज्ञाय ॥ संव]त् १२८७ वर्षे लौकिकफाल्गुनवदि ३ रवौ अद्येह श्रीमदणहिलपाटके चौलुक्यकुलकमलराजहंससमस्तराजवलीसमलंकृत- 20 महाराजाधिराज श्रीभ[ीमदेव] (*) विजयराज्ये त.................। श्रीवसिष्ट(ष्ठ) कुंडयजनानलोद्भूतश्रीमद्भूमराजदेवकुलोत्पन्नमहामंडलेश्वरराजकुलश्रीसोमसिंहदेवविजयिराज्ये तस्यैव महाराजाधिराजश्रीभीमदेवस्य प्रसा[दात् गूर्ज](*)रत्रामंडले श्रीचौलुक्यकुलोत्पन्नमहामंडलेश्वरराणकश्रीलवणप्रसाददेवसुतमहामंडलेश्वरराणकश्रीवीरधवलदेवसत्कसमस्तमुद्राव्यापारिणा श्रीमदणहिलपुरवास्तव्यश्रीप्राग्वाटज्ञातीय ठ० 25 श्रीचंड[पसुत ठ० श्री] (*)चंडप्रसादात्मज महं० श्रीसोमतनुज ठ० श्रीआसराजभार्या ठ० श्रीकुमारदेव्योः पुत्र महं० श्रीमल्लदेव संघपति महं० श्रीवस्तुपालयोरनुजसहोदरभ्रातृ महं० श्रीतेजःपालेन स्वकीयभार्या महं० श्रीअनुपमदेव्यास्तत्कुक्षि
D:\sukarti.pm5\3rd proof