________________
10
नवमं परिशिष्टम् ]
[९५ इतश्च महं० श्रीतेजःपालस्य पल्याः श्रीअनुपमदेव्याः पितृवंशवर्णनम् । प्राग्वाटान्वयमण्डनैकमुकुटः श्रीसान्द्रचन्द्रावतीवास्तव्यः स्त(*)वनीयकीर्तिलहरिप्रक्षालितक्ष्मातलः । श्रीगागाभिधया सुधीरजनि यद्वृत्तानुरागादभूत् , को नाप्तप्रमदो, न दोलितशिरा नोद्भूतरोमा पुमान् ? ॥५०॥ अनुसृतसज्जनसरणिर्धरणिगनामा बभूव तत्तनयः । स्वप्रभुहृदये (*) गुणिना, हारेणेव स्थितं येन ॥५१॥ त्रिभुवनदेवी तस्य, त्रिभुवनविख्यातशीलसम्पन्ना । दयिताऽभूदनयोः पुनरङ्गं द्वेधा मनस्त्वेकम् ॥५२।। अनुपमदेवी देवी, साक्षाद्दाक्षायणीव शीलेन । तद्दुहिता सहिता श्रीतेज:पालेन (*) पत्याऽभूत् ॥५३।। इयमनुपमदेवी दिव्यवृत्तप्रसूनव्रततिरजनि तेजःपालमन्त्रीशपत्नी । नय-विनय-विवेकौचित्य-दाक्षिण्य-दानप्रमुखगुणगणेन्दुद्योतिताशेषगोत्रा ॥५४॥ लावण्यसिंहस्तनयस्तयोरयं, रयं जयन्नि(*)[द्रि] यदुष्टवाजिनाम् । लब्ध्वापि मीनध्वजमङ्गलं वयः, प्रयाति धर्मेकविधायिनाऽध्वना ॥५५॥ 15 श्रीतेजपालतनयस्य गुणानमुष्य, श्रीलूणसिंहकृतिनः कति न स्तुवन्ति ? । श्रीबन्धनोद्धुरतरैरपि यः सम्मतादुद्दामता त्रिजगति क्रि(*)यते स्म कीर्तेः ॥५६।। गुणधननिधानकलशः, प्रकटोऽयमवेष्टितश्च खलसः । उपचयमयते सततं, सुजनैरुपजीव्यमानोऽपि ॥५७।। मल्लदेवसचिवस्य नन्दनः, पूर्णसिंह इति लीलुकासुतः । तस्य नन्दति सुतऽयमलणा(*)देविभूः सुकृतवेश्म पेथडः ॥५८।। अभूदनुपमा पत्नी, तेजःपालस्य मन्त्रिणः ।। लावण्यसिंहनामाऽयमायुष्मानेतयोः सुतः ॥५९।। तेजःपालेन पुण्यार्थं, तयोः पुत्र-कलत्रयोः । हवें श्रीनेमिनाथस्य, तेने तेनेदमबुंदे ॥६०॥ तेजःपाल इति क्षितीन्दुसचिवः शङ्कोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिन्दुकुन्दरुचिरं नेमिप्रभोर्मन्दरिम् ॥
20
D:\sukarti.pm5\3rd proof