________________
१२६]
[वसन्तविलासमहाकाव्यम् ॥ लिङ्गोपजीविनां लोके कुर्वन्ति येऽवधीरणाम् ।
दर्शनोच्छेदपापेन लिप्यन्ते ते दुराशयाः ॥ आवश्यकवन्दनानिर्युक्तौ
तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणन्तो । तित्थयरो ति नमन्तो सो पावइ निज्जरं विउलं ॥ लिङ्गं जिणपन्नत्तं एव नमंसन्ति निज्जरा विउला ।
जइवि गुणविप्पहीणं वन्दइ अज्झप्पसुद्धीए ॥ इति तदुपदेशान्निर्मार्जितसम्यक्त्वदर्पणो विशेषाद् दर्शनपूजापर: स्वस्थानमासदत् ।
अथ ज्यायसा सोदरेण मं० लूणिगनाम्ना परलोकप्रयाणावसरे'ऽर्बुदे विमलवसहिकायां मम योग्या देवकुलिकैका कारयितव्या' इति धर्मव्ययं याचित्वा तस्मिन् विपने तद्गोष्ठिकेभ्यस्तद्भवमलभमानश्चन्द्रावत्याः स्वामिनः पाश्र्वान्नव्यां भूमिं विमलवसहिकासमीपेऽभ्यर्थ्य तत्र श्रीलूणिगवसहिप्रासादं भुवनत्रयचैत्यशलाकारूपं कारयामासिवान् । तत्र श्रीनेमिनाथबिम्बं संस्थाप्य प्रतिष्ठितम् । तद्गुणदोषविचारणाकोविदं श्रीजावालिपुराच्छ्रीयशोवीरमन्त्रिणं समानीय मन्त्री प्रासादस्वरूपं पप्रच्छ । तेन प्रासादकारकसूत्रधारः शोभनदेवोऽभ्यधायि-'रङ्गमण्डपेषु शालभञ्जिकामिथुनस्य विलासघाटस्तीर्थकृत्प्रासादे सर्वथानुचितः, वास्तुनिषिद्धश्च । तथा गर्भगृहप्रवेशद्वारे सिंहाभ्यां तोरणमिदं देवस्य विशेषपूजाविनाशि । तथा पूर्वपुरुषमूर्तियुतगजानां पुरतः प्रासादः कारापकस्यायतिविनाशी, इत्यप्रतीकारार्ह दूषणत्रयं विज्ञस्यापि सूत्रभृतो यदुत्पद्यते स भाविकर्मणो दोषः' इति निर्णीय स यथागतमथोगतः । तदुपश्लोकनश्लोका एवम्
यशोवीर यशोमुक्ताराशेरिन्दुरसौ शिखा । तद्रक्षणाय रक्षायाः श्रीकारो लाञ्छनच्छलात् ॥ बिन्दवः श्रीयशोवीर शून्यमध्या निरर्थकाः । सङ्ख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृताः ॥ यशोवीर लिखत्याख्यां यावच्चन्द्रे विधिस्तव । न माति भुवने तावदाद्यमप्यक्षद्धयम् ॥ न माघः श्लाघ्यतेकैश्चिन्नाभिनन्दो न नन्द्यते । निष्कलः कालिदासोऽपि यशोवीरस्य सन्निधौ ॥ प्रकाश्यते सतां साक्षाद्यशोवीरेण मन्त्रिणा। मुखे दन्तद्युता ब्राह्मी करे श्रीः स्वर्णमुद्रया ॥ अर्जितास्ते गुणास्तेन चाहुमानेन्द्रमन्त्रिणा । विधेरब्धेश्च नन्दिन्यौ यैरनेन नियन्त्रितौ ॥ लक्ष्मीर्यत्र न वाक् तत्र यत्र ते विनयो न हि। यशोवीर महच्चित्रं सा च सा च स च त्वयि ॥
D:\bsnta-p.pm5\2nd proof