________________
१४
शिशुपालवधम्
तमर्घ्य दियाऽऽदिपूरुषः सपर्यया साधु स पर्यपूपुजत् । गृहानुपैतुं प्रणयादभीप्सयो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥
1
तमिति ॥ आदिपूरुषः पुराणपुरुषः । 'अन्येषामपि दृश्यते' ( ६ | ३|१३७ इति वा दीर्घः । स कृष्णः अर्धं पूजामहंतीत्यर्ध्यः । दण्डादिभ्यो यः (५।१।६६ ) । तं नारदम् । अर्घार्थं द्रव्यमध्यंम् । पादार्घाभ्यां च ' ( ५।४।२५ ) इति यत्प्रत्ययः । 'मूल्ये पूजाविधावधं : ' 'षट् तु त्रिष्वर्ध्य मर्घायें' इति चामरः । अर्घ्य मादिस्यास्तयार्थ्यादिकया । ' शेषाद्विभाषा' (५२४ । १५४ ) इति विकल्पेन कप्रत्ययः । सपर्यया पूजया । पूजा नमस्याऽपचितिः सपर्यार्णाः समाः' इत्यमरः । साधु यथा तथा पर्य पूजत्परिपूजितवान् । ण चडन्तं कर्तव्यम् । युक्तं चैतदित्यर्थान्तरं न्यस्यति - गृहानिनि । मनस ईषिणो मनीषिणः सन्तः । पृषोदरादित्वात्साधुः । अपुण्यकृतां पुण्यमकृतवताम् । 'सुकर्मपापमन्त्रपुण्येषु कृञः' इति भूते क्विप् । गृहान्प्रणयादुपैतुमभीप्सवः प्राप्तुमिच्छ्वः । आप्नोतेः सन्नन्तादुप्रत्ययः । 'आप्ज्ञप्यृधामीत्' (७।४।५५) इतोकारः । न भवन्ति किन्तु पुण्यकृतामेव । अतः कृच्छ्लभ्याः सन्तः पूज्या इत्यर्थः ।। १४ ।।
अन्वयः - आदि पुरुषः सः अयं तत् अर्ध्यादिकया सपर्यया साधु पर्यपुजत् । मनीषिणः अपुण्यकृतां गृहान् प्रणया उपैतुम् अभीप्सवः न भवन्ति ॥ १४ ॥
हिन्दी अनुवाद -आदि पुरुष उन श्रीकृष्ण ने पूज्य नारदजी की अर्ध्या आदि पूजन सामग्री से यथोक्त विधि से (अच्छी तरह ) पूजा की। विद्वान् लोग ( सन्त पुरुष ) पुण्य कर्म न करने वालों के ( अपुण्यात्मा के ) घर प्रेम से आना नहीं चाहते हैं ।। १४ ।
प्रसङ्ग — श्रीकृष्ण ने स्वयं दिये हुए आसन पर नारद मुनि को बैठाया । न यावदेतावदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताकृती | स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत् ॥ १५ ॥
न यावदिति । उत्थितावेतौ मुनिकृष्णौ जनस्तुषाराञ्जनयोः पर्वताविव यावन्नोदपश्यन्नोत्प्रेक्षितवान्, तावच्चिरन्तनः पुराणो मुनिः कृष्णः । 'पुरा किल भगवान् बदरिकारण्ये नारायणावतारेण तपसि स्थितवान्' इति पुराणात् । 'सायंचिरम् - (४।३।२३) ' इत्यादिना ट्युप्रत्ययस्तुडागमश्च । स्वहस्तेन दत्ते आसने मुनि नारदमभिन्यवीविशत् स्वाभिमुखेनोपवेशितवान् । अभितिपूर्वाद्विशतेर्ण्यन्ताल्लुङि 'णि' - ( ३।१।४८ ) इति च ।। १५ ।।
अन्वयः - जनः उत्थितौ एतौ तुषाराञ्जनपर्वतौ इव यावत् न उदपश्यत् तावत् चिरन्तनः मुनिः स्वहस्तदत्ते आसने मुनिम् अभिन्यवीविशत् ।। १५ ।।
१. ० मर्धादिकया ।
२. पर्वताविव !