________________
प्रथमः सर्गः
पिशङ्गमौ श्रीयुजमर्जुनच्छवि वसानमेणाजिनमञ्जनद्युति । सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥ ६॥
पिशङ्गेति । पुनः कीदृशम् । मुञ्जस्तृणविषेषः तन्मयी मेखला मौञ्जी, पिशङ्गया मौञ्ज्या युज्यत इति पिशङ्गमौञ्जीयुक् तम् । 'सत्सूद्विष ( ३।२।५१ ) – ' इत्याfना क्विप् । 'स्त्रियाः पुंवत् ( ६।३।३४ ) - इति पिशङ्गशब्दस्य पुंवद्भावः । अर्जुनच्छवि धवलकान्तिम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । अञ्जनद्युत्यञ्जनवर्ण मेणाजिनं कृष्णमृगचर्म वसानमाच्छादयन्तम् | 'वस आच्छादने' इति धातोः शानच् । सुवर्णसूत्रेण कनकमेखलया आकलितं बद्धमधराम्बरमन्तरीयं यस्यास्तां शितिवाससो नीलाम्वरस्य रामस्य तनुं विडम्बयन्तम् अनुकुर्वाणमित्यर्थः । आर्थीयमुपमा ॥ ६ ॥
अन्वयः - पिशङ्गौ श्रीयुजम् अर्जुनच्छविम् अञ्चनद्युति एणाजिनं वसानम् ( अतएव ) सुवर्णसूत्राकलिताघराम्बरां शितिवाससः तनु विडम्बयन्तम् ॥ ६॥
हिन्दी अनुवाद - पीतवर्ण की मुंज की मेखला को ( करधनी ) धारण किये हुए, ( तथा स्वयं ) गौरवर्णवाले, अञ्जन के समान कान्तिवाले कृष्ण मृग चर्म को धारण किये हुए, (अतएव ) सोने की करधनी से बँधे हुए, नीले अधोवस्त्र वाले ( गौर वर्ण ) बलराम के शरीर का अनुकरण करते हुए ( उस व्यक्ति को श्रीकृष्ण ने नारद जाना ) ।। ६ ।।
प्रसङ्ग - इस श्लोक में शरद्कालीन विद्युत् समूहों से युक्त ऊँचे मेघ से महर्षि नारद का साम्य प्रदर्शित किया गया है ।
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुद्दवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तडितां गणैरिव' ॥ ७ ॥
विहङ्गेति ॥ पुनः । विहङ्गराजाङ्गरुहैरिव गरुत्मल्लोमतुल्य राय तैर्दीर्घः । हिरण्यस्य विकारो हिरण्मयी । 'दाण्डिनायन ( ६ |४११०४ ) - इत्यादिना मयटि योपनिपातः । तस्यामुव्य रुहा रूढाः । इगुपधलक्षणः कप्रत्ययः । तासां वल्लीना तन्तुभिस्तुल्यः उपादानगुणात् हिरण्मयः कृतोपवीतं शोभार्थं कल्पितयज्ञसूत्रं स्वयं हिमशुभ्रम् । अत एव घनान्ते शरदि तडितां गणैरुपलक्षितम् । 'तडित्सौदामिनी विद्युत्' इत्यमरः । उच्च रेवोच्चकै रुन्नतं घनं मेघमिव स्थितम् ॥ ७ ॥
श्रन्वयः– विहङ्गराजाङ्गरुहैः इव भायतैः हिरण्मयोर्वीरुहवल्लितन्तुभिः कृतोपवीतं हिमशुभ्रम् (अतएव ) घनान्ते तडितां गणैः ( उपलक्षितम् ) उच्चकैः घनमिव ॥ ७ ॥
१. गणैरिव ।