________________
१४०
शिशुपालवधम् अन्तर्भूतं ततो भूतं उवाचेदं पुनर्वचः । यस्योस्सने गृहोतस्य भुजावभ्यधिकावुभौ ॥ २ ॥ पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ । तृतीयमेतद्वालस्य ललाटस्थ तु लोचनम् । निमज्जिप्यति यं दृष्ट्रा सोऽस्य मृत्युभविष्यति । ततश्चेदिपुरी प्राप्तौ संकर्षणजनार्दनौ । यादवी यादवीं द्रष्टुं स्वसारं सौ पितुस्तदा । सोभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः । पुत्रं दामोदरोत्सङ्ग देवी सव्यदधात् स्वयम् । न्यस्तमात्रस्य तस्यांक भुजावभ्याधिकावुभौ ।। पेततुस्तच्च नयनं न्यमज्जत ललाटजम् । तं दृष्टवा म्यशिता त्रस्ता वरं कृष्णमयाचत ।। शिशुपालस्यापराधान् क्षमेथास्वं महाबल । अपराधशतं साम्यं मया ह्यस्य पितृष्वसुः ॥ "पुत्रस्य ते वधार्हस्य मात्वं शोके मनः कृथाः ॥"
( महाभारते सभापर्वम् २।१०८) ॥ १०८ ॥ प्रसङ्ग-उद्धवजी सज्जन पुरुषों के स्वभाव की विशेषता का उल्लेख करते हुए श्रीकृष्ण को पूर्वकृत प्रतिज्ञा का पालन करने का आग्रह करते हैंसत्यमस्ति प्रतिश्रुतं, किन्वक्योन्मत्तत्वादोद्धत्यादपि जिह्वासित मत आह
तीक्ष्णा नारुम्तुदा बुद्धिः कर्म शान्तं प्रतापवत् ।
नोपतापि मनः सोप्म वागेका वाग्ग्मिनः सतः ।। १०९ ॥ तीक्ष्णेति । सतः सत्पुरुषस्य बुद्धिस्तीक्ष्णा निशिता स्यादिति विदीत्यध्याहारः । एवमुत्तरत्रापि। तथाप्य रुस्तुदतीत्यरुन्तुदा शस्त्र वन्मर्मच्छेदिनी न भवेत् । अहिंसयंव परं पीडयेदित्यर्थः । कर्म व्यापार: प्रतापवत्तेजस्वि भयदं स्यात. तथापि थान्तं स्यात् । न तु सिंहादिवद्धिस्रं भवेदित्यर्थः । मनश्चित्तं सोष्म अभिमानोष्णं स्यात्तथापि उपतापयतीत्युपतापि अग्न्यादिवत्परसन्तापि न स्यात् । वाग्मिनो वक्तुर्वागे का एकरूपा स्यात् । वाग्मी सत्यमेव वदेदित्यर्थः । अतः सत्यसन्धस्य प्रतिश्रतार्थहानिरनति भावः । अत्र प्रकृवाया वाचोऽप्रकृतानां बद्धिक्रममनसा तुल्यवदिौपम्यावगमाद्दीपकालङ्कारः।
'प्रकृताप्रकृतानो च साम्ये तु तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपक तनिगयते' ।। इति लक्षणाद् । बुद्धयादीनां शस्त्रादिव्यतिरेको व्यज्यते ॥ १०६ ।।