________________
शिशुपालवधम् को कहा जाता है, ये दोनो बुद्धि और पराक्रम 'प्रभुशक्ति' प्राप्ति के मूल कारण हैं। इस हेतु बुद्धि और पराक्रम से प्रभुशक्ति का सम्पादन करना चाहिये ।
प्राचीन नीतिज्ञों का मत है कि उत्साहशक्ति और प्रभावशक्ति इन दोनों में से उत्साहशक्ति श्रेष्ठ है" "उत्साहप्रभावयोरुत्साहः श्रेयान्" कौटलीय अर्थशास्त्र ॥ ७६ ॥
प्रसङ्ग- श्लोक ७७ से ८० उद्धवजी यहाँ बुद्धिपूर्वक उत्साह करने का आग्रह करते हैंउत्साहवत्प्रजापि ग्राहयेत्युक्तं तस्याः प्रयोजनमाह
सोपधानां धियं धीराः स्थेयसी खटवयन्ति ये।
तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ॥ ७७ ॥ सोपधानामिति ॥ ये धीरा धीमन्तः सोपधानां सविशेषाम् । युक्तियुक्तामित्यर्थः। अन्यत्र सगेन्दुकाम् । सोपींमित्यर्थः। 'उपधानं विशेष स्याद्गेन्दुके प्रणयेऽपि च' इति विश्वः। स्थयमी स्थिरतरामचपलां द्रढीयसी च । स्थिरशब्दादीयसुनि 'प्रियस्थिर'-(६।४।१५७ ) इत्यादिना स्थादेशः । धियं खट्वन्ति खट्वां पर्यवं कुर्वन्ति । आश्रयन्तीत्यर्थः। शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः। 'तत्करोति तदाचष्टे' ( गणसूत्र ) इति णिच् । ते धीरास्तत्र घीखट्वायामनिशमश्रान्तं निषण्णा विश्रान्ताः सन्तो जातु कदाचिदपि श्रमं खेदं न जानते न विदन्ति । श्रमः खेदो रत्यादेरिति लक्षणम् । धीपूर्वक एवोत्साहः सेव्यो न केवल इति सर्वथा धीराश्रयणीयेत्यर्थः । अत्र धिय आरोप्यमाणायाः प्रकृतश्रमापनोदरूपोपकारपर्यन्ततया परिणामालङ्कारः । 'आरोप्यमाणस्य प्रकृतो. पयोगित्वे परिणामः' इति लक्षणात् ॥ ७७ ॥
अन्वयः ---( हे कृष्ण ! ) ये धीराः सोपधानां स्थेयसीं धियं खट्वयन्ति ते तत्र अनिशं निषण्णाः ( सन्तः) जातु श्रमं न जानते ॥ ७७ ॥
हिन्दी अनुवाद-हे कृष्ण !-जो विद्वान् युक्तियुक्त और स्थिर (दृढ़ ) बुद्धि को ही पलङ्ग बनाकर उसका आश्रय लेते हैं, वे उसपर सदा निश्चिन्त होकर सुखानुभव करते हैं, और कभी भी उन्हें खेद ( कष्टानुभव ) नहीं होता। अर्थात् बुद्धिपूर्वक किया हुआ उत्साह ही श्रेयस्कर है। अतः बुद्धि का ही आश्रय (ग्रहण) करना चाहिये । प्रकृत श्लोक में परिणामालकार है ॥७७॥ . प्रसङ्ग-उद्धवजी यहाँ कुशाग्रबुद्धिवाले पुरुषों की प्रशंसा करते हैंअथ प्रज्ञाप्रज्ञयोर्दाभ्यां वैषम्यमाह
स्पृशन्ति शरवत्तीक्ष्णाः स्तोकमन्तर्विशन्ति च । बहुस्पृशाऽपि स्थूलेन स्थीयते बहिरश्मवत् ॥ ७८ ॥