________________
द्वितीयः सर्गः
१०७
समय उसपर आक्रमण करना आदि, दोनों में एक रूपता नहीं लायी जा सकती, क्योंकि ) प्रकाश और अन्धकार की एक साथ स्थिति कहाँ हो सकती है ? ।। ६२ ।।
विशेष- इस विषय में कामन्दक ने कहा है—
"प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति ।” प्रायः विवेकी पुरुष व्यसन को प्राप्त हुए पुरुषपर आक्रमण करने को कहते हैं ॥
मनु कहते हैं—
" तदा यायाद्विगृह्यैव व्यसने चोरिथते रिपोः ।"
( शत्रु विपद्ग्रस्त होनेपर आक्रमण करना चाहिये । )
कौटिल्य कहते हैं— “व्यसनी यातव्यः, अनपाश्रयो दुर्बलाश्रयो वोच्छेदनोयः” व्यसनी शत्रु राजापर आक्रमण कर देना चाहिए। आश्रयहीन अथवा दुर्बल शत्रु · राजापर भी आक्रमण कर देना चाहिए |
प्रसङ्ग - प्रस्तुत श्लोक में बलराम जी कर्तव्य का निर्देश देते हैं---
तहि नः किमिदानीं कार्यमत आह
इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः । आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥ ६३॥
इन्द्रप्रस्थेति । इन्द्रप्रस्थस्य पार्थनगरस्य गमो गमनम् । 'ग्रहवृदृनिश्विगमश्र्व' ( ३।३।५८ ) इत्यप्रत्ययः । तावदिदानीं मा कारि तावत् । न क्रियतामेवेत्यर्थः । 'यावत्तावत्परिच्छेदे कात्स्न्ये मानावधारणे' इति विश्वः । कृञः कर्मणि लुङ् । 'माङि लुङ्' (३।३।१७५) इत्याशीरर्थे । 'न माङ्योगे ' ( ६|४|७४ ) इत्यट्प्रतिषेधः । किन्तु चेदयश्चेदिदेशाः अस्माकमिमे आस्माका: । ' युष्मदस्मदोरन्यतरस्यां खव' ( ४ | ३ | १ ) इति विकल्पादण्प्रत्ययः । ' तस्मिन्नणि च युष्माकास्माको ' ( ४।३।२ ) इत्यस्माकादेशः । सन्निधिरेव सान्निध्यम् । स्वार्थे ष्यञ्प्रत्ययः । आस्माकानां दन्तिनां सान्निध्याद्वामनीभूताः शाखाभङ्गात्खर्वीभूता भूरुहो वृक्षा येषां ते तथोक्ताः सन्तु । चेदियत्रैव क्रियतामित्यर्थः । सा च प्रस्तुता प्रस्तुतेनैव स्वकार्येण गम्यते इति पर्यायोक्तालङ्कारः ।
'कारणं गम्यते यत्र प्रस्तुतात्कार्य वर्णनात् । प्रस्तुतत्वेन सम्बन्धात्पर्यायोक्तः स उच्यते ' ॥
इति लक्षणात् ॥ ६३ ॥
अन्वयः -- ( हे कृष्ण ! ) इन्द्रप्रस्थगमः मा कारि तावत् । चेदयः आस्माकदन्ति-सान्निध्यात्वामनीभूतभूरुहः सन्तु ।। ६३ ।