________________
१०२
शिशुपालवधम् एवं स्थिते यदि केचिदुद्धवादयः प्रत्याचक्षीरंस्तान्प्रत्याह
गुणानामायथातथ्यादर्थ विप्लावयन्ति ये।
अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसंशिताः ॥ ५६ ॥ गुणानामिति ॥ सन्ध्यादीनां गुणानामायथातथ्यात् । तथात्वमनतिक्रम्य यथातथम् । यथायोग्यमिति यावत् । 'यथार्थे तु यथातथम्' इत्यमरः। यथार्थेऽव्ययीभावः । ‘स नपुंसकम्' (२।४।१७ ) इति नपुंसकत्वम् । 'ह्रस्वो नपुंसके-' (१।२।४७ ) इति ह्रस्वत्वम् । ततो नसमासे अयथातथं, तस्य भावः आयथातथ्यम् । ब्राह्मणादित्वात् ष्यञ्प्रत्ययः । 'यथातथायथापुरयोः पर्यायेण' (७।३।३१) इति विकल्पान्नपूर्वपदवृद्धिः। तस्मादायथातथ्यादयथायोग्यत्वात् । अन्यकालेऽन्यप्रयोगादित्यर्थः । अयं प्रयोजनं ये विप्लावयन्ति निघ्नन्ति। कार्यहानि कुर्वन्तीत्यर्थः। अमात्यानां व्यञ्जनं चिह्न येषां ते तथोक्ताः। तद्वेषधारिण इत्यर्थः । अवो बहुव्रीहिय॑धिकरणो जन्माधुत्तरपदः' (२०१६) इति वामनः। वस्तुतस्तु शत्रुरिति संज्ञा एषां सजाता शत्रुसंज्ञिताः शत्रव एव ते कूटमन्त्रिणो राज्ञां दूषयितुमर्हाः दूष्या गाः । त्याज्या इति यावत् । 'कृत्यानां कर्तरि वा' (२।३।७१) इति कर्तरि षष्ठी । अतः स्वोक्तं न प्रतिरोद्धव्यमिति भावः ।। ५६ !!
अन्वयः-गुणानाम् आयथातथ्यात् ये ( राज्ञाम् ) अर्थ विप्लावयन्ति ते अमात्यव्यञ्जनाः शत्रुसंज्ञिताः (अतश्च ते) राज्ञां दूष्याः ॥ ५६ ॥
हिन्दी अनुवाद-जो (मन्त्रीगण) सन्धिविग्रहादि गुणों का अयोग्य प्रयोग कर राजा के कार्य को नष्ट कर देते हैं, वे मन्त्री के वेष में शत्रु ही होते हैं, रामाको ऐसे मन्त्रियों का त्याग कर देना चाहिये ।। ५६ ॥
विशेष-शत्रु के साथ सन्धि कब करनी चाहिये, उसपर आक्रमण कव करना चाहिये आदि छः गुणों के तत्वों का प्रयोग-उचित ज्ञान न होने से कार्य नष्ट हो जाते हैं। ___ अतः मन्त्रियों को गुणों-संधि, विग्रह, यान, आसन, संश्रय और द्वैधीभावके प्रयोग का सम्यक ज्ञान होना अत्यन्त आवश्यक है ॥५६॥
प्रसङ्ग-बलराम जी नीतिकारों के विचारों की ओर ध्यान आकर्षित करते हुए कहते हैं।
ननु यातव्योऽपि काले यातव्य इत्याशङ्कय अयमेव काल इत्याह
स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे । यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ।। ५७ ॥