________________
•९२
शिशुपालवधम् प्रसङ्ग-प्रस्तुत श्लोक में बलरामजी शिशुपाल के अन्य अपकार ( कुकृत्य ) का स्मरण श्री कृष्ण को कराते हैं। अपकारान्तरमाह
आल याऽलमिदं बभ्रोर्यत्स दारानपाहरत् ।
कथाऽपि खलु पापानामलमश्रेयसे यतः॥४०॥ आलप्येति ॥ स चंद्यो बभ्रोर्यादवभेदस्य दारान्भार्याम् । 'भार्या जायाऽय 'भूम्नि दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । अपाहरदिति यदिदं दारापहरणं आलप्योच्चार्याऽलम् । अनालपनीयमित्यर्थः। 'अलखल्वोः प्रतिषेधयोः प्राचां क्त्वा' ( ३।४।१८) इति क्त्याप्रत्यये समासे ल्यवादेशः । यतः पापानां पाप्मनां कथनमुच्चारणमपि । 'चिन्तिपूजिकथिकुम्बि' (३।३।१०५ ) इत्यङ्प्रत्ययः । अश्रेयसेऽ. नयालं समर्थ खलु । 'नमःस्वस्ति-' (२।३।१६ ) इत्यादिना चतुर्थी । अत्र निषिध्यमानालपननिषेधनसमर्थनात्कार्येण कारणसमर्थकोऽर्थान्तरन्यासः ॥ ४० ॥ ___ अन्वयः-सः बभ्रोः दारान् अपाहरत् (इति) यत् इदं आलप्य अलं, यतः पापानां कथा अपि अश्रेयसे भलम् ।। ४० ॥
हिन्दी अनुवाद-(बलराम जी कहते हैं कि) उस (शिशुपाल ) ने यभ्र यादव की स्त्री का अपहरण किया ४ादि बातें कहना भी व्यर्थ हैं, क्योंकि पापियों की कथा सुनने से भी पाप ही होता है ।। ४० ॥ __ प्रसङ्ग-बलरामजी ने पूर्वोक्त कारणों को बतलाने के पश्चात् कहा कि शिशुपाल इहम लोगों का कृत्रिम शत्रु हो गया है। फलितमाह
विराद्ध एवं भवता विराद्धा बहुधा च नः।
निर्वत्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः॥४१॥ विराद्ध इति ॥ एवं भवता विराद्धो विप्रकृतः। राधेरनिटः कर्मणि क्तः । बहुधा नोऽस्माकं च विराद्धा विप्रकर्ता, श्रुतश्रवा नाम हरेः पितृष्वसा तस्याः सुतः। पैतृष्वसेयत्वात्सहजमित्रमपीति भावः । स चैद्यः क्रियया पूर्वोक्तान्योन्याऽपक्रियया अरिनिवर्त्यते कृत्रिमः शत्रुः क्रियते । अतो बलीयस्त्वादनुपेक्ष्य इति भावः ॥ ४१ ॥ ___ अन्वयः-एवं भवता विराद्धः बहुधा च नः विराद्धा श्रुतश्रवसः सः सुतः क्रियया अरिः निर्वय॑ते ।। ४१ ॥
हिन्दी अनुवाद-इस प्रकार (रुक्मिणी हरण से) आपके द्वारा अपकार किया गया और अनेक बार आपका अपकार करने वाला वह बुआ का पुत्र (शिशुपाल) हम लोगों का कृत्रिम शत्रु हो गया है ।। ४१॥