________________
द्वितीयः सर्गः विशेष-सूत्र का लक्षण इस प्रकार है
"अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवा च सूत्रं सूत्रविदो विदुः ॥" प्रसङ्ग-श्री कृष्ण के विचार को सिद्धान्तरूप में स्वीकार कर तथा उद्धव ज. के निषेधात्मक विचार को मन में रखते हुए उसका तीन श्लोकों में क्र. २६-२७ खण्डन करते हैं। इत्यं पाड्गुण्यादिपाठमानं न मन्त्र इति सिद्ध सम्प्रति स्वयं मन्त्रस्वरूपमाह
सर्वकार्यशरीरेपु मुक्त्वाऽङ्गस्कन्धपञ्चकम् ॥
सौगतानामिवात्माऽन्यो नास्ति मन्त्रो महीभृताम् ॥ २६ ॥ सर्वेति ॥ सर्वाणि कार्याणि सन्ध्यादीनि तानि शरीराणीवेत्युपमितसमासः । सौगतानामिवेति । लिङ्गान्तेषु सर्वकार्यशरीरेषु सर्वेषु शरीरेष्विव । सर्वकार्येष्वित्यर्थः। अङ्गानि स्कन्धा इवेत्युपमितसमासः। तेषां पञ्चकं मुक्त्वा । स्कन्धपञ्चकमिवाङ्गपञ्चकं हित्वेत्यर्थः । पञ्च परिमाणमस्येति पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (४।१।५८) इति क प्रत्ययः । सुगतो भक्तिभंजनीय एषां सौगता बौद्धाः । 'भक्तिः (४।३।६५) इत्यण्प्रत्ययः। तेषामन्य आत्मेव महीभृतामन्यो मन्त्रो नास्ति । कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पत् देशकालविभागः, विपत्तिप्रतीकारः कार्य सिद्धिन श्चेति पञ्चाङ्गानि । यथाह कामन्दकः
'सहायाः साधनोपाया विभागो देशकालयोः ।
__ विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते' ॥ (११।५६) ___ इति । रूपवेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः। तत्र विषयप्रपञ्चो रूपस्कन्धः, तज्ज्ञानप्रपञ्चो वेदनास्कन्धः, आलयविज्ञानसन्तानो विज्ञानस्कन्धः, नामप्रपञ्चः संज्ञास्कन्धः, वासनाप्रपञ्चः संस्कारस्कन्धः । एवं पञ्चधा परिवर्तमानो ज्ञानसन्तान एवात्मा इति बौद्धाः। एवं यथा बौद्धानां सर्वेषु शरीरेषु स्कन्धपञ्चकातिरिक्त आत्मा नास्ति, तथा राज्ञामङ्गपञ्चकातिरिक्तो मन्त्रो नास्तीत्युपमालङ्कारः। तच्चास्माकं समग्रमेवेत्ययमेव यात्राकाल इति भावः ॥ २६ ॥
अन्वय-सर्वकार्यशरीरेषु अङ्गस्कन्धपञ्चकं मुक्त्वा सौगतानां आस्मा इव महीभृतां अन्यः मन्त्रः नास्ति ॥ २६ ॥
हिन्दी अनुवाद-जिस प्रकार बौद्धों के यहाँ रूपादि पांच स्कंधों ( रूप-स्कंध, वेदनास्कंध, विज्ञानस्कंध, संज्ञास्कन्ध और संस्कार-स्कंध ) के अतिरिक्त आत्मा कोई अन्य वस्तु नहीं है, उसी प्रकार राजाओं के यहाँ भी पांच अङ्गों के अतिरिक्त मन्त्र नाम की कोई अन्य वस्तु नहीं है ॥ २६ ।।
६शि०व०