________________
द्वितीयः सर्गः
६५ प्रसङ्ग--प्रस्तुत श्लोक से (३-५) ती। श्लोकों में कवि माध; सभा-वेदीपर उपस्थित श्रीकृष्ण, बलराम और उद्धव की शोभा का वर्णन करते हैं।
जाज्वल्यमाना जगतः शान्तये समुपेयुषी ॥
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥३॥ जाज्वल्यमानेति ॥ जगतः शान्तयेऽनुपद्रवाय समुपेयुषी मिलिता जाज्वल्यमाना भृशं ज्वलन्ती । धातोरेकाचो हलादेः क्रियासमभिहारे यङ् । ( ३।१।२२) ततो लटः शानजादेशे टाप् । असो नराः पुरुषा एव शिखिनोऽग्रयस्तेषां त्रयी। "द्वित्रिभ्याम् -' (५।२।४३) इत्यादिना तयस्यायजादेशे कृते "टिड्ढाण-' (४।१।१५) इत्यादिना डीप् । सभा आस्थानी सैव वेदिः । 'वेदिः परिष्कता भूमिः' इत्यमरः। तस्यां व्यद्योतिष्ट दीप्यते स्म । 'युद्भयो लुङि' ( १।३।६१) इति वा तङ् । रूपकालङ्कारः ॥ ३ ॥
अन्वयः--जगतः-शान्तये समुपेयुपी जाज्वल्यमाना असौ नरशिखित्रयी समावेयां व्ययोतिष्ट ॥ ३ ॥
हिन्दी अनुवाद-जगत् के उपद्रवों को शांत करने के लिये एकत्र हुए, माहवनीय, दक्षिण और गार्हपत्यरूप अग्नि के समान ये तीनों (श्रीकृष्ण, उद्धव और बराम) महापुरुष समारूप वेदीपर सुशोभित हुए ॥ ३॥
प्रसङ्ग-तत्पश्चात् श्रीकृष्ण, उद्धव और बलराम को साथ लेकर तात्कालिक निर्णय लेने के लिए रवजटित सभा-भवन में गये ।
रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे॥
एकाकिनोऽपि परितः पौरुषेयवृता इव ॥४॥ रनेति ॥ रत्नानां स्तम्भा इति षष्ठीसमासविशेषे पर्यवसानाद्विकारार्थत्वम् । तेषु संक्रान्तप्रतिमाः संक्रान्तप्रतिबिम्बाः। 'प्रतिमानं प्रतिबिम्ब प्रतिमा-'इत्यमरः। ते त्रय एकाकिनोऽसहाया अपि । 'एकादाकिनिच्चासहाये' (२३३५२) इत्याकिनि. प्रत्ययः। परितोऽभिंतः सर्वतः। पर्यभिभ्यां च ( २३३३६ ) इति तसिल्प्रत्ययः । स च सर्वोभयार्थाभ्यामिष्यते । पौरुषेयेण प्रतिबिम्बभूयस्त्वात्पुरुषसमूहे नावृता इवेत्युस्प्रेक्षा। चकाशिरे । सर्वपुरुषाभ्यां णढनो ( ५:१।१०) पुरुषाद्वधविकारसमूहतेनकृतेविति वक्तव्यम्' इति समूहे ढप्रत्ययः । एतेन विजनत्वमुक्तम् । यद्यपि
'निःस्तम्भे निर्गवाक्षे च निभित्त्यन्तरसंश्रये ।
प्रासादाने त्वरण्ये वा मन्त्रयेद्भावभाविनी ॥ इति कामन्दकीये मन्त्रभूमेः स्तम्भप्राचुर्यनिषेधो गम्यते, तथापि तस्यापि विजनोपलक्षणत्वाददोष इति भावः ॥ ४ ॥
५शि०३०