________________
द्वितीयः सर्गः प्रसङ्ग-नारदमुनि के द्वारा इन्द्र का सन्देश सुन लेने के पश्चात्, एक ओर तो राजसूय यज्ञ के लिए युधिष्ठिर द्वारा आमन्त्रित किये गये तथा दूसरी ओर शिशुपाल पर अभियान करने के इच्छुक श्रीकृष्ण द्विविधा में पढ़कर व्याकुल हो उठते हैं । अतः ऐसे अवसर पर मन्त्रणा की आवश्यकता होती है। तदर्थ महाकविमाघ 'मन्त्रवर्णनात्मक' सर्ग प्रारम्भ करते हैं।
यियक्षमाणेनाहूतः पार्थेनाऽथ मुरं द्विषन् ॥
अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः॥१॥ अस्मिन्सर्गे मन्त्रवर्णनाय बीजं वपति
यियिक्षमाणेनेति ॥ अथेन्द्रसन्देशश्रवणानन्तरं यियक्षमाणेन यष्टुमिच्छता । यजतेः सन्नन्ताल्लटः शानच् । पार्थेन पृथापुत्रेण युधिष्ठिरेण । 'तस्येदम्' (४॥३॥१२०) इत्यण् । अन्यथा स्त्रीभ्यो ढक् (४।१।१२०) स्यात् । ततः पार्थेय इति स्यात् । आहूत आकारितः । ह्वयतेः कर्मणिक्त सम्प्रसारणदी? । तथा अभिचा शिशुपालं प्रति । 'लक्षणेनाभिप्रती आभिमुख्ये' (२।१।१५) इत्यव्ययीभावः । 'अमिरभागे' (१।४।६१) इति कर्मप्रवचनीयत्वे तद्योगे द्वितीया वा। प्रतिष्ठासुः प्रस्थातुमिच्छुः । तिष्ठतेः सन्नन्तादुप्रत्ययः। मुरं द्विषन्मुरारिः। द्विषोऽमित्रे (३।२।१३१) इति शतृप्रत्यये 'न लोका-' (२।३।६९) इत्यत्र 'द्विषः शतुर्वा' इति वैकल्पिकः षष्ठीप्रतिषेधः । कार्यद्वयेन सुरकार्य सुहृत्कार्यरूपेणाकुलो विप्रतिषेधादावश्यकत्वाच्च द्वयोः सन्दिहान आसीत् । अतो मन्त्रस्यायमवसर इति भावः ॥ १॥
अन्वयः-अथ यियक्षमागेन पार्थेन आहूतः अभिचैद्यं प्रतिष्ठासुः मुरं द्विषन् कार्यद्वयाकुलः आसीत् ॥ १॥
हिन्दी अनुवाद-इस (नारदमुनि के द्वारा कथित इन्द्रका सन्देश सुनने तथा तदनुरूप कार्य करने की स्वीकृति श्रीकृष्ण से पाकर नारदमुनि के चले जाने ) के पश्चात् यज्ञ करने के इच्छुक पृथापुत्र युधिष्ठिर के द्वारा निमन्त्रित तथा शिशुपाल पर
१. द्विषन्मुरम् ।