________________
प्रथमः सर्ग
शस्य पिशुनः सूचकः। 'चन्द्रमभ्युत्थितः केतुःक्षितीशानां विनाशकृत्' इति शास्त्रादिति भावः। केतुरुत्पातविशेषः। 'केतुर्युतो पताकायां ग्रहोत्पातारिलक्ष्मसु' इत्यमरः। भ्रुकुटिच्छलेन भ्रूभङ्गव्याजेनास्पदं प्रतिष्ठां स्थितिं चकार । 'आस्पदं प्रतिष्ठायाम्' ६।१।१४६ इति निपातनात्सुडागमः। अनेन वाक्यार्थभूतस्य वीररससहकारिणो रौद्रस्य स्थायी क्रोधःस्वानुभावेन भृकुट्या कारणभूतोऽनुमेय इत्युक्तम् । तथा तदविनाभूतस्य स्थायी प्रयत्नोपनेय उत्साहोऽप्युत्पन्न एवेत्यनुसन्धेयम् । इन्दोः श्रियं विभ्रतीत्यत्र मुनेरिन्दुश्रियोऽयोगात्तत्सादृश्याक्षेपादसम्भवद्वस्तुसम्बन्धरूपो निदर्शनालङ्कारः। वदने व्योम्नीवेत्युपमा । भृकुटिच्छलेन केतुरिति छलादिशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवः । तत्र शत्रुविनाशसूचके त्वपेक्षितेन्दुसान्निध्यव्योमावस्थानसम्पादकत्वे निदर्शनोपमयोरपह्नवोपकारसत्त्वादङ्गाङ्गिभावेन सङ्करः। चमत्कारकारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु श्रीशब्दप्रयोगः । यथाह भगवान् भाष्यकार:-मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते, वीरपुरुषाण्यायुष्मत्पुरुषाणि च भवन्ति' इति । शार्दूलविक्रीडितं वृत्तम् । 'सूर्याश्वमसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् । सर्गान्तत्वावृत्तभेदः । यथाह दण्डी
'सर्गरनतिविस्तीर्णः श्राव्यवृत्तैः सुसन्धिभिः । सर्वत्र भिन्नसर्गान्तरुपेतं लोकरञ्जकम्' ॥ इति ॥ ७५ ॥
(काव्यादर्श १।१८-१९) अथ कविः कविकाव्यवर्णनीयाख्यानपूर्वकसर्गसमाप्ति कययति-इतीति । इतिशब्दः समाप्तौ । माघकृताविति कविनामकथनम् । महाकाव्ये इति महच्छब्देन लक्षणसम्पत्तिः सूचिता। शिशुपालवध इति काव्यनामकथनम् । प्रथमः सर्ग इति । समाप्त इतिशेषः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध
काव्यव्याख्याने सर्वङ्कषाख्ये प्रथमः सर्गः ॥१॥
अन्वयः-तस्मिन् सुरमुनी इति वाचं व्याहृत्य नभः उत्पतिते पुरः इन्दोः श्रियं बिभ्रति ( सति ) अथ ओम् इति उक्तवतः चैद्यं प्रति क्रुद्धस्य शाह्मिणः वदने ब्योम्नि इव अनिशं शत्रूणां विनाशपिशुनः केतुः भ्रुकुटिच्छलेन आस्पदं चकार ॥ ७५ ॥
हिन्दी अनुवाद--उन नारदमुनिके द्वारा यह (१॥३१-७४ ) कहने के बाद आकाश में उड़नेपर और सामने चन्द्रमा की शोभा को धारण करने पर, 'ओम्'(नारदमुनि की बात स्वीकार करनेवाले) ठीक है, ऐसा कहनेवाले तथा शिशुपाल के प्रति क्रुद्धहोनेवाले श्रीकृष्ण के मुखमण्डलपर आकाशपटल की तरह अविरत शत्रुओं के