________________
प्रथमः सर्गः निरन्तर दुष्टता करते रहने से भरे हुए पापके घड़ेवाले असाधुओं को सत्पुरुषों के द्वारा दण्ड अवश्य दिया जाना चाहिए ॥ ७३ ।। विशेष-गीता में कहा भी है
"परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।"
धर्मसंस्थापनार्याय संभवामि युगे युगे ॥ ४॥८॥ प्रसङ्ग-प्रस्तुत श्लोक में नारदजी, दुष्ट शिशुपाल का वध करके इन्द्र के हृदय को दृढ़ करने की प्रार्थना-श्रीकृष्ण से करते हैं
हृदयमरिवधोदयादुदूढ'-द्रढिम दधातु पुनः पुरन्दरस्य ॥
घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥७४॥ किञ्चैवं दुष्टनिग्र हे शिष्टानुग्रहः स्यादित्याह
हृदयमिति॥ अरिवधोदयाद्रिपुनाशलाभात् उदूढद्रढिम नैश्चिन्त्याद् धृतदाढर्यम् । स्वस्थमिति यावत् । पृथ्वादित्वाद् दृढशब्दादिमनिच्प्रत्ययः । 'र ऋतो हलादेलघोः' (६।३।१६१ ) इति ऋकारस्य रेफादेशः । पुरः शत्रुपुराणि दारयतीति पुरन्दर इन्द्रः । 'पू:सर्वयोर्दारिसहोः' ( ३।२।४१ ) इति खच्प्रत्ययः । 'खचि ह्रस्वः' इत्युपधाह्रस्वः । 'वाचंयमपुरन्दरी च' (६।३।६६) इति निपातनाददन्तत्वंमुमागमश्च । तस्य हृदयं पुनर्भूयोऽपि। पूर्ववदेवेति भावः। घनपुलकयोः सान्द्ररोमाञ्चयोः, पुलोम्नो जाता पुलोमजा शची तस्याः कुचाग्रयोतपरिरम्भ औत्सुक्याच्छीघ्रालिङ्गनं तत्र यत्पीडनं तस्य क्षमत्वं सहत्वं दधातु । प्राक्चित्तविक्षेपात्त्यक्तभोगेन शक्रेण सम्प्रति त्वत्प्रसादानिष्कण्टकं स्वकीयं राज्यं भुज्यतामित्यर्थः । अत्र दाढर्यपदार्थस्योदूढद्रढिमेति विशेषणगत्या निपीडनक्षमत्वं प्रति हेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गम् । हृदयनिपीडनक्षमत्वसम्बन्धेऽप्यसम्बन्धोक्त्या सम्बन्धेऽसम्बन्धरूपातिशयोक्तिरित्यर्थालङ्कारो वृत्त्यनुप्रासश्च तरन्योन्यं संसृज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ७४ ॥
अन्धयः- अरिवधोदयात् उदूढढिम पुरन्दरस्य हृदयं पुनः घनपुलकपुलोमजाकुचाग्रदुतपरिरम्भनिपीडनचमत्वं दधातु ॥ ७४ ॥
हिन्दी अनुवाद-शत्रु के (शिशुपाल के ) वध से हताधारण करनेवाला इन्द्र का हृदय ( कामसे) पर्याप्त रोमांचवाले इन्द्राणी के स्तनाग्रों का आलिंगन करने में पुनः सामर्थ्य प्राप्त करे ॥ ४ ॥
विशेष-अर्थात्, नारदमुनि ने श्रीकृष्ण से कहा--(१) पूर्व में शिशुपाल कृत
१. ०दवाप्त ।