________________
प्रथमः सर्गः
५७ प्रसङ्ग-नारदमुनि ने भगवान् श्रीकृष्ण से कहा कि शिशुपाल ने अपनी शक्ति से देवों और दानवों को अपने वश में कर लिया है
स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयो' यदृच्छया ॥ दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्हसत्यसौ ॥ ७१ ॥
स्वयमिति ॥ यदृच्छया स्वेच्छया स्वयं सामयन । न तु देवताप्रसादबलादिति भावः । सुरदैत्यरक्षसां देवदानवयातुधानानामनुग्रहावग्रहयोः प्रसादनिग्रहयोर्विधाता कर्ता असौ शिशुपाल: अभिराद्धाभिराराधिताभिर्देवताभिरीश्वरादिभिवितीर्णो दत्तो वीर्यातिशयः प्रभावातिशयो येषां तान्दशाननादीन्हसति । अनन्यप्रसादलब्धश्वयें मयि कथं याचकस्तुल्यतेति गर्वाद्धसतीत्यर्थः ।। ७१ ॥
अन्वयः-यदृच्छया स्वयं सुरदैत्यरतसाम् अनुग्रहावग्रहयोः विधाता असौ अभिराद्धदेवता-वितीर्णवीर्यातिशयान् दशाननादीन् हसति ।। ७१ ॥
हिन्दी अनुवाद-स्वेच्छासे (देवताओं के वरदान से नहीं, अपितु अपने पुरुषार्थ से ) देव-दानघों और राक्षसों पर दया करनेवाला या उनको दण्ड देनेवाला यह ( शिशुपाल) देवताओं की कृपा से प्राप्त अतिशय शक्तिवाले रावणादिका उपहास करता है ॥ ७१॥
प्रसङ्ग-प्रस्तुत श्लोक में महाकविमाघ शिशुपालकृत जगत्-उत्पीडन का वर्णन करते हैं
बलावलेपादधुनापि पूर्ववत्प्रवाध्यते तेन जगजिगीषुणा ॥ सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि ।। ७२॥
बलेति ॥ जिगीषुणा नित्योत्साहवतेत्पर्थः । तेन शिशुपालेन बलावलेपावलगर्वादधुनापि पूर्ववत्पूर्वजन्मनीव जगत्प्रपाध्यते । तथा हि-सती पतिव्रता योषिदिव सुनिश्चलाऽतिस्थिरा प्रकृतिः स्वभावो भवान्तरेषु जन्मान्तरेष्वपि पुमांसमभ्येति ।
'पति या नाभिचरति मनोवाक्कायसंयता।
सा भर्तुर्लोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ इति मनुः । उपमोपमेयपुरस्कृतोऽर्थान्तरन्यासः ॥ ७२ ॥
अन्वयः-जिगीषुणा तेन बलावलेपात् अधुना अपि पूर्ववत् जगत् प्रवाध्यते, सुनिश्चला प्रकृतिः, सती योषित् इव भवान्तरेषु अपि पुमांसमभ्येति ॥ ७२ ॥
हिन्दी अनुवाद-जयाभिलाषी वह (शिशुपाल) बल के दर्प से इस समय भी, अपने पूर्व जन्म की भाँति ( अर्थात् रावण जन्म की तरह) जगत् को त्रस्त कर
१. ०पग्रहयो।
२. सुनिश्चिला पुमांसमन्वेति ।