________________
प्रथमः सर्गः
४९ प्रीमोर्नु ग्वक्तव्य' इति नुक् । तेन स्फुटागसा व्यक्तापराधेनापि । अन्तःपुरद्रोहस्य महापराधत्वादिति भावः । ऊरुषु तासां सक्थिषु लोलचक्षुषः सतृष्णदृष्टेः। 'सक्थि क्लीवे पुमानूरुः' इति, 'लोलश्चलसतृष्णयोः' इति चामरः । अत एव रावणस्य प्रियेण प्रमोदास्पदभूतेन । अङ्गीकृता म्लानिने दोषायेति न्यायादिति भावः। प्रकम्पनेन वायुना अनपराधेऽपराधाभावेऽपि बाधिताः। राजपुरुषरिति शेषः। सुरा अनुचकम्पिरे। स्वयमुपायेनान्तः प्रविश्यानपराधबाधानिवेदनेन मोचयता वायुनाऽनुकपिता इत्यर्थः । एकस्य वैदग्ध्यावहवो जीवन्तीति भावः ॥ ६१ ॥
अन्वयः-निशान्तनारीपरिधानधूननस्फुटागसा अपि ऊरुषु लोलचक्षुषः तस्य प्रियेण प्रकम्पनेन अनपराधबाधिताः सुराः अनुचकम्पिरे ॥ ६ ॥
हिन्दी अनुवाद-अन्तःपुर की सुन्दरियों के अधोवर (साडियों ) को उदाने के कारण स्पष्ट अपराधी ( होनेपर) भी (उन सुन्दरियों की खुली हुई ) जाँघों पर सतृष्ण (ललचायी हुई) दृष्टि टोलने वाले रावण के प्रिय पात्र वायु ने बिना अपराध के ही सताए हुए देवों को अनुगृहीत किया ॥ ६ ॥
(अन्तःपुर की सुन्दरियों की साड़ियाँ वायु जब उदाता था, तब विलासी रावण उनकी खुली जाँघों को देखकर प्रसन्न होता था, और इसी कारण, यद्यपि वायु रानियों के साथ इस प्रकार का व्यवहार करने से स्पष्ट अपराधी था, तथापि वह रावण का प्रिय हो चुका था। फलतः जब-जब राजपुरुषों द्वारा अनपराधी देव सताये जाते थे, तब-तब रावण का कृपापात्र वायु देवों को राजपुरुषों के त्रास से मुक्त करा देता था)॥
प्रसङ्ग-प्रस्तुत श्लोक में अग्निपराजय का वर्णन हैतिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम् ।। बभार वाप्पैर्द्विगुणीकृतं तनुस्तनूनपाधूमवितानमाधिः ॥ ६२॥
तिरस्कृत इति ॥ किञ्च तस्य रावणस्य जनाभिभाविना लोकतिरस्कारिणा महीयसामतिमहतां महसा तेजसां महिम्ना महत्त्वेन । 'पृथ्वादिभ्य इमनिज्वा' (५२१११२२ ) इतीमनिच् । मुहुस्तिरस्कृतः अत एव तनुः कृशः। तनुं न पातयति जाठररूपेण शरीरं धारयतीति तनूनपादग्निरिति स्वामी । 'नभ्राट् -' (६।३।७५) इत्यादिसूत्रेण निपातनान्नजो नलोपाभावः। आधिजदुःखोत्थबाष्पः निःश्वासोष्मभिः । 'बाष्पो नेत्रजलोष्ममोः' 'पुंस्याधिर्मानसी व्यथा' इति विश्वामरौ । द्वौ गुणावावृत्ती यस्य स द्विगुणः। ततश्चिः । द्विगुणीकृतं द्विरावृत्तम्। 'गुणस्त्वावृत्ति शब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । धूमवितानं धूममण्डलं बभार । अग्निरपि तत्सन्निधौ निस्तेजस्को धूमायमान आस्त इत्यर्थः। धूमद्वैगुण्यासम्बन्धे सम्बन्धाभिधानादतिशयोक्तिः ।। ६२॥
४शि०व०