________________
प्रथमः सर्गः रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङमुखीकृताः॥ प्रहर्तुरेवोरगराजरजवो जवेन कण्ठं सभयाः प्रपेदिरे ॥५६ ॥
रणेष्विति ॥ किञ्च रणेषु प्रचेतसा वरुणेन प्रहिताः प्रयुक्ता उरगराजा महासस्तेि रज्जव इव उरगराजरज्जवः । नागपाशा इत्यर्थः । तस्य रावणस्य सरोषहुङ्कारेण पराङ्मुखाकृना व्यावर्तिताः अत एव सभयाः सत्यः जवेन वेगेन प्रहर्तः प्रयोक्तुः प्रचेतस एव कण्ठं प्रपेदिरे प्राप्ताः । अत्र परहिंसाप्रयुक्तस्यायुधस्य वैपरीत्येन स्वकण्ठग्रहणादनर्थोत्पत्तिरूपो विषमालङ्कारः । “विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत्' इति लक्षणात् ॥ ५६ ।। ___ अन्धयः-रणेषु प्रचेतसा प्रहिताः उरगराज़रजवः तस्य सरोपहुङ्कारपराङमुखीकृताः ( अतएव ) सभयाः ( सत्यः) जवेन प्रहर्तुः एव कण्ठं प्रपेदिरे ।। ५६ ॥
हिन्दी अनुवाद-युद्धों में वरुण के द्वारा फेंके गए नागपाश उस (रावण) के क्रोधयक हुशार से लौटाये जाकर भय के साथ वेग से आकर फेंकनेवाले ( प्रहार करनेवाले ) के ही ( वरुण के ) कण्ठ में लिपट गए ।। ५६ ॥
प्रसन-प्रस्तुत श्लोक में रावण कृत यमविजय वर्णित है। परेतभर्तुमहिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः॥ हृतेऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः॥ ५७ ॥
परतभर्तुरिति ।। अमुना रावणेन धनुः शाङ्गं विधातुं निर्मातुमुत्खातमुत्पाटितं विषाणयोः शृङ्गयोमण्डलं वलयं यस्य सः परेतभर्तुर्य मस्य महिषः । वाहनभूत इति भावः । भारे विषाणरूपे । भृत्रो घञ् । हृतेऽपि महतस्त्रपंव भरस्तस्मात् । ततोऽपि दुर्भरादिति भावः । भृधातोः क्रमादिकात्' ऋदोरप् ( ३।३।५७ ) इत्यप्प्रत्ययः । भृशमत्यर्थमानतं नम्र शिरो दुःखेनोवाह वहति स्म। 'असंयोगास्लिट् कित्' (१।२।५) इति कित्त्वात् 'वचिस्वपि-' (६।१।१५) इत्यादिना सम्प्रसारणम् । हृतेऽपि भारे नतमिति विरोधः तदनुप्राणिता चेयमवनतिहेतुत्वसाधात्त्रपाभरत्वोत्प्रेक्षा ॥५॥ __ अम्वयः-अमुना धनुः विधातुम् उत्स्वातविषाणमण्डलः परेतभर्तुः महिषः भारे हृते अपि महतः पाभरात् भृशानतं गिरः दुःखेन उवाह ॥ ५७ ॥
हिन्दी अनुवाद-उस ( राघण) के द्वारा धनुष निर्मित करने के लिए उखाड़े गये सींगों के मण्डलवाला यमराज का महिष (शृङ्गः) भार दूर कर दिये जानेपर भी लज्जा के महान् भार से अत्यन्त नत हुए मस्तक को दुःख के साथ वहन करने लगा ॥ ५७॥
(रावण ने अपना धनुष बनाने के लिये यमराज के वाहन महिप के शृङ्ग उखाड़