________________
प्रथमः सर्गः इस अकस्मात् प्राप्त हुए आलिंगन सुख के द्वारा रावण ने शंकर के दिये हुए वरदान का (मानो) बदला चुका दिया ॥)॥५०॥
प्रसङ्ग-प्रस्तुत श्लोक में ऋवि रवर्ग में रावणकृत उपद्रवों का वर्णन करता है । पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हराऽमराङ्गनाः ।। विगृह्य चक्रे नमुचिद्विषा वशी य' इत्थमस्वास्थ्यमहर्निशं दिवः॥५१॥
पुरीमिति ॥ यो वली बलवानरावणो नमुचिद्विषा इन्द्रेण विगृह्य विरुध्य पुरीममरावतीमवस्कन्दादरुरोध । नन्दन मिन्द्रवनम् । 'नन्दनं वनम्' इत्यमरः। लुनीहि चिच्छेद । 'ई हल्यघोः' (६।४।११३ ) इतीकारः । रत्नानि श्रेष्ठवस्तूनि मणीन्वा । 'रत्नं श्रेष्ठ मणावपि' इति विश्वः । मुषाण मुमोष । मुष स्तेये, 'हलः श्नः शानज्झौ' (३।१।८३ ) इति श्नः शानजादेशः । अमराङ्गनाः हर जहार । सर्वत्र पौनःपुन्येनेत्यर्थः । इत्थमनेन प्रकारेण अहनि च दिवा चाहदिवम् । अहन्यहनीत्यर्थः । अचतुर(५।४।७७) इत्यादिना सप्तम्यर्थवृत्ती द्वन्द्व समासान्तो निपातः। दिवः स्वर्गस्यास्वास्थ्यमुपद्रवं चक्रे। अत्रावस्कन्देत्यादौ "क्रियासमभिहारे लोट् लोटो हिस्वी वा च तध्वमोः' ( ३।४।२) इत्यनुवृत्ती 'समुच्चयेऽन्यतरस्याम्' इति विकल्पेन कालसामान्ये लोट् । तस्य यथोपग्रहं सर्वतिङादेशो हिस्वी च । प्रकरणादिना त्वर्थविशेपावसानम् । 'अतो हेः' ( ६।४।१०५ ) इति यथायोग्यं हिलुक् । पौनपुन्यं भृशार्थो वा क्रियासमभिहारः । अवस्कन्दनादिक्रियाविशेषाणां समुच्चयः क्रियासमभिहारः । तत्सामान्यस्य करोतेः समुच्चये सामान्यवचनस्य' (३।४।५) इत्यनुप्रयोगः चक्र इति । 'अत्र ति_चित्यात्सौशब्दाख्यो गुणः । 'सुपां तिङां परावृत्तिः सौशब्दम्' इति लक्षणात् । समुच्चयालङ्कारः ।। ५१ ॥ ___ अन्वयः--बली यः नमुचिद्विषा विराह्य पुरीम् अवस्कन्द नन्दनं लुनीहि रत्नानि मुषाण अमराङ्गनाः हर इत्थम् अहदिवं दिवः अस्वास्थ्य चक्रे ॥ ५१ ॥
हिन्दी अनुवाद-जिस वलवान् रावण ने नमुचिशत्रु (इन्द्र ) के साथ विरोध कर (शत्रुताकर ) पुनः पुनः पुरी को (अमरावती को) घेर लिया, 'नन्दन' वन (इन्द्रवन ) को काट डाला, रनों को चुरा लिया और देवाङ्गनाओं का अपहरण कर लिया, इस प्रकार ( उसने ) प्रतिदिन स्वर्ग में उपद्रव किया ॥ ५१ ॥
विशेष-उक्त श्लोक से माघ कवि के व्याकरण ज्ञान की सूचना मिलती है । सिद्धान्त कौमुदी की लकारार्थ प्रक्रिया में-'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' सूत्र की व्याख्या के अवसर पर कौमुदीकार ने उक्त श्लोक को ही उपन्यस्त किया है ।। ५१॥
१. बली
महर्दिवम् ।