________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पादांगुलीनमी रक्षे,-च्छ्रीनेमिश्चरणद्वयम्; श्री पार्श्वनाथः सर्वागं, वर्धमानश्चिदात्मकम् पृथिवीजलतेजस्क-बाय्वाकाशमयं जगत्, रक्षेदशेषपापेभ्यो, धीतरागो निरंजनः राजद्वारे श्मशाने च, संग्रामे शत्रुसंकटे: व्याघ्रचौराग्निसर्पादि-भूतप्रेतभयाऽऽश्रिते अकाले मरणे प्राप्ते, दारिद्र्यापत्समाश्रिते; अपुत्रत्वे महादुःखे, मूर्खत्वे रोगपीडिते डाकिनीशाकिनीग्रस्ते, महाग्रहगणार्दिते नद्युत्तारेऽध्ववैषम्ये, व्यसने चापदि स्मरेत् प्रातरेव समुत्थाय, यः स्मरेज्जिनपंजरम्, तस्य किंचिद्भयं नास्ति, लभते सुखसंपदा जिनपंजरनामेदं, यः स्मरेदनुवासरम्; कमलप्रभराजेन्द्र-श्रियं स लभते नरः प्रातः समुत्थाय पठेत्कृतज्ञो, यस्तोत्रमेतज्जिनपंजराख्यम्; आसादयेत् स कमलप्रभाख्यां, लक्ष्मी मनोवांछित पूरणाय
For Private And Personal Use Only