________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचाम्लादि-तपः कृत्वा, पूजयित्वा जिनावलिम्; अष्टसाहस्त्रिको जापः, कार्यस्तत्सिद्धिहेतवे शतमष्टोत्तरं प्रात-र्ये पठन्ति दिने दिने, तेषां न व्याधयो देहे, प्रभवन्ति च संपदः अष्टमासावधिं यावत्, प्रातरुत्थाय यः पठेत्: स्तोत्रमेतन्महातेज, स्त्वर्हदि बबं स पश्यति दृष्टे सत्यार्हते बिंबे, भवे सप्तमके ध्रुवम्; पदं प्राप्नोति शुद्धात्मा, परमानंदनंदितः विश्ववंद्यो भवेद् ध्याता, कल्याणानि च सोऽश्नुते; गत्वा स्थानं परं सोपि, भूयस्तु न निवर्तते इदं स्तोत्रं महास्तोत्रं, स्तुतीनामुत्तमं पदम् पठनात् स्मरणाज्जापाल्लभते पदमव्ययम् ऋषिमंडलनामैतत्, पुण्य पाप प्रणाशकम्; दिव्यतेजो महास्तोत्रं, स्मरणात्पठनाच्छुभम् विघ्नौघाः प्रलयं यान्ति, आपदो नैव कर्हिचित्; ऋद्धय समृद्धयः सर्वाः, स्तोत्रस्यास्य प्रभावतः श्री वर्द्धमानशिष्येण, गणभृद् गौतमर्षिणा; ऋषिमंडलनामैतद्, भाषितं स्तोत्रमुत्तमम्
___१०१
१०२
For Private And Personal Use Only