________________
Shri Mahavir Jain Aradhana Kendra
F
www.kobatirth.org
दिव्यो गोप्यः सुदुष्प्राप्यः, श्रीऋषिमंडलस्तवः; भाषितस्तीर्थनाथेन, जगत्त्राणकृतेऽनघः रणे राजकुले वनौ, जले दुर्गे गजे हरौ; स्मशाने विपिने धोरे स्मृतो रक्षति मानवम् राज्यभ्रष्टा निजं राज्यं, पदभ्रष्टा निजं पदम्; लक्ष्मीभ्रष्टा निजां लक्ष्मीं प्राप्नुवन्ति न संशयः भार्यार्थी लभते भार्यां सुतार्थी लभते
सुतम्:
1
विद्यार्थी लभते विद्यां नरः स्मरणमात्रतः स्वर्णे रौप्ये पटे कांरये, लिखित्वा यस्तु पूजयेत्;
तस्यैवाष्ट महासिद्धि-गृहे वसति शाश्वती भूर्जपत्रे लिखित्वेदं, गलके मूर्ध्नि वा भुजे; धारितं सर्वदा दिव्यं सर्वभीति-विनाशकम् भूतैः प्रेतैर्ग्रहैर्यक्षैः पिशाचैर्मुद्गलैर्मलैः, वातपित्तकफोद्रेकैर्मुच्यते नात्र संशयः ॐ भूर्भुवः स्वस्रयी- पीठ - वर्तिनः शाश्वता जिनाः; तैः स्तुतैर्वन्दितैर्दृष्टैर्यत्फलं तत्फलं स्मृतौ एतद् गोप्यं महास्तोत्रं न देयं यस्य कस्यचित्; मिथ्यात्ववासिने दत्ते, बालहत्या पदे पदे
"
t
-
६१
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
८५
८६
८७
८८
८९
९०
९१
९२
९३