________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्तुं स्तवं लसदसंख्य-गुणाकरस्य; बालोऽपि किं न निजबाहु-युगं वितत्य, विस्तीर्णतां कथयति स्व-धियाम्बु-रार्शः?. ये योगिनामपि न यान्ति गुणास्तवेश?, वक्तुं कथं भवति तेषु ममावकाशः?; जाता तदेवमसमीक्षित-कारितेयं, जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि. आस्तामचिन्त्य-महिमा-जिन संस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति; तीव्रातपोपहत-पान्थ-जनान्निदाघे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि. हृद्वतिनि त्वयि विभो! शिथिलीभवन्ति, जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः; सद्यो भुजंगममया ईव मध्यभागमभ्यागते वन शिखण्डिनि चन्दनस्य. मुच्यन्त एव मनुजाः सहसा जिनेन्द्र!, रौद्रैरुपद्रव शतैस्त्वयि वीक्षितेऽपि: गो-रवामिनि स्फुरित-तेजसि दृष्टमात्रे,
२८
For Private And Personal Use Only