________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्याण मंदिर स्तोत्र - ८ कल्याण-मंदिरमुदारमवद्य भेदि, भीताभय-प्रदमनिन्दितमध्रि-पद्मम्; संसार-सागर-निमज्जदशेष-जन्तुपोतायमानमभिनम्य जिनेश्वरस्य. यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः, स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम्; तीर्थेश्वरस्य कमठ-स्मय-धूमकेतो, स्तस्याहमेष क्लि संस्तवनं करिष्ये (युग्मम्) सामान्यतोऽपि तव वर्णयितुं स्वरूपमस्मादृशाः कथमधीश! भवन्त्यधीशा:?; धृष्टोऽपि कौशिक-शिशुर्यदिवा दिवान्धो, रूपं प्ररूपयति किं किल घर्मरश्मेः?. मोहक्षयादनुभवन्नपि नाथ! र्मत्यो, नूनं गुणान् गणयितुं न तव क्षमेत; कल्पान्त-वान्त-पयसः प्रकटोऽपि यस्मान् मीयेत केन जलधेर्ननु रत्नराशिः?. अभ्युद्यतोऽस्मि तव नाथ! जडाशयोऽपि,
२७
For Private And Personal Use Only