________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कस्ते क्षमः सुर-गुरु-प्रतिमोऽपि बुद्ध्या; कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्? सोऽहं तथापि तव भक्तिवशान्मुनीश!, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः; प्रीत्यात्म-वीर्यमविचार्य मृगो मृगेन्द्र, नाभ्येति किं निजशिशोः परिपालनाऽर्थम्, अल्प-श्रुतं श्रुतवतां परिहास-धाम, त्वद्-भक्तिरेव मुखरीकुरूते बलान्माम् यत्कोकिलः किल मधौ मधुरं विरोति, तच्चारु-चूत-कलिका-निकरैकहेतुः त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं, पापं क्षणात्क्षयमुपैति शरीरभाजाम: आक्रान्त-लोकमलि-नीलमशेषमाशु, सूर्यांशु-भिन्नमिव शार्वरमन्धकारम् मत्वेति नाथ! तव संस्तवनं भयेद, -मारभ्यते तनुधियापि तव प्रभावात्; चेतो हरिष्यति सतां नलिनी-दलेषु,
१८
For Private And Personal Use Only