________________
५
सर्गः ]
सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् ।
दिलीपेन, शेषः अवशिष्टः, अपि = समुच्चये, अनुयायिवर्गः अनुचरसङ्घः, न्यषेधि= निवर्त्तितः । तस्य = पूर्वोक्तस्य, दिलीपस्येति यावत् । शरीररचा = गात्ररसणं, च= अन्वाचये, अन्यतः = अन्यस्मात् पुरुषान्तरादिति यावत् । न = नहि, अद्यतीति शेषः । हि = यतः, मनोः = वैवस्वताख्यमनोः, प्रसूतिः = सन्ततिः, सनुषंशोद्धवराजवृन्दमिति भावः । स्ववीर्यगुप्ता = आत्मपराक्रमरक्षिता, भवतीति क्षेषः ।
"
स० - अनु पश्चाच्चरतीत्यनुचरः तेनानुचरेण । अनु पश्चाद् यातुं शीलं येषान्ते ऽनुयायिनः, तेषां वर्गोऽनुयायिवर्गः । शरीरस्य रक्षा शरीररता । प्रसूयत इति प्रसूतिः । स्वस्य वीर्यं स्ववीर्यं तेन गुप्ता स्ववीर्यगुप्ता ।
को० – 'नियमो व्रतमस्त्री' इति । 'अनुप्लवः सहायश्चानुचरोऽभिसरः समाः' इति चामरः । "धेनुगमात्र के दोग्धाम्' इति । 'वीर्यं प्रभावे शुक्रे च तेजःसामर्थ्य - योरपि' इति मे० । 'प्रसूतिः प्रसवोत्पत्तिपुत्रेषु दुहितर्यपि' इत्यनेका० ।
ता० - स्वयमेव कर्त्तव्यमुचितमिति कृत्वा राजा दिलीपः स्नानुचरवृन्दं न्यषेवीत् । अपि च मनुवंश्यानां राज्ञां स्वशरीररक्षणे नान्यस्य साहाय्यमपेक्षितं भवति सामर्थ्यात् ।
इन्दुः ० - गोसेवाव्रत पालन करने के लिये सेवक की भाँति पीछे-पीछे चलने वाले उन 'राजा दिलीप' ने 'सुदक्षिणा' लौटाने के बाद बचे हुए अनुचर वर्गको भी पीछे-पीछे आने से रोका। उनको शरीर की रक्षा करने के लिये भी दूसरे पुरुष की आवश्यकता नहीं थी । क्योंकि 'वैवस्वत मनु के वंश में उत्पन्न राजा लोग अपने ही पराक्रम से आत्मरक्षा कर लेते थे ॥ ४ ॥
आस्त्राद्द्दर्द्धिः कबलैस्तृणानां कण्डूयनं दशनिवारणैश्च ।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥२॥ सञ्जी० - आस्वादवद्भिरिति । सम्राण्मण्डलेश्वः । 'येनेष्टं राजसूयेन मण्डलस्ये • श्वरश्व यः । शास्ति यश्चाज्ञय राज्ञः स सम्राट्' इत्यमरः । स राजा आस्वादवद्भिः रसवद्भिः स्वादयुक्तैरित्यर्थः । तृणानां कवलैग्रसिः 'ग्रासस्तु कवलः पुमान्' इत्यमरः । कण्डूयनैः खर्जनैः । दंशानां वनमक्षिकाणां निवारणैः । 'दंशस्तु वनमक्षिका' इत्यमरः । अव्याहतैरप्रतिहतः स्वैरगतैः स्वच्छन्दगमनैश्च । तस्था धेन्वाः समारावनतत्परः शुश्रूषाऽऽसक्तोऽभूत् । तदेव परं प्रधानं यस्येति तत्परः । 'तत्परे प्रसितासक्ती' इत्यमरः ।
अ० – सम्राट्, सः, आस्वादवद्भिः, तृणानां कवलैः कण्डूयनैः दंशनिवारणैः, अव्याहतैः, स्वैरगतैः च, तस्याः, समाराधनतत्परः, अभूत् ।
वा० - सम्राजा तेन समाराधनतत्परेणाभावि ।
सुधा - सम्राट् = मण्डलेश्वरः, सः = 1 = दिलीपः । आस्वादवद्भिः = रसवद्भिः स्वादहयर्थः । तृणानाम् = घासानाम् । कवलैः = ग्रासैः कण्डूयनैः = सर्जनैः,
: