________________
॥ श्रीः ॥
रघुवंशमहाकाव्यम्
द्वितीयः सर्गः आशासु राशीभवदगावल्लीमासैव दासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैनिन्दितशारदेन्दं वन्देऽरविन्दासनसुन्दरि ! त्वाम् ॥ अथ प्रजानामधिपः प्रमाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेमुमोच ॥ १ ॥ सञ्जीविनी-अथेति । अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः भाते प्रातःकाले जायया सुदक्षिणया प्रतिग्राहयिच्या प्रतिग्राहिते स्वीकारिते गन्ध. ल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या, तां तथोकाम् । पोतं पानमस्यास्तीति तः पीतवानित्यर्थः। 'अर्श आदिभ्योऽच' इत्यच्प्रत्ययः। 'पीता गावो भुक्का राह्मणाः' इति महाभाष्ये दर्शनात् । पीतः प्रतिवद्धो वत्सो यस्यास्तामृषेर्धेनं वनाय 'नं गन्तुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इत्यनेन चतुर्थी । मुमोच मुक्त
न् । जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसन्धेयम् । तथा हि इतिः-(पतिर्जायां प्रविशति गर्मो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा दशमे सि जायते । तज्जाया जाया भवति यदस्यां जायते पुनः॥) इति । यशोधन त्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानहें गोरक्षणे प्रवृत्त इति गम्यते । अस्मिन्सर्ये वृत्तउपजातिः-(अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः)।
अन्वयः-अथ, यशोधनः, प्रजानाम्, अधिपः, प्रभाते, जायाप्रतिग्राहितगन्धल्याम, पीतप्रतिवद्धवत्साम्, ऋषेः, धेनु, वनाय, मुमोच । वा०-यशोधनेन जानामधिपेन जायाप्रतिग्राहितगन्धमाल्या पीतप्रतिवद्धवत्सा ऋषेधेनुर्ममुचे । __ सुधा-अथराज्यपगमानन्तरं, यशोधना=कीर्तिवित्तः, प्रजानां जनानाम्, नधिपः प्रभुः, दिलीप इत्यर्थः। प्रभाते-प्रत्यूपे, जायाप्रतिग्राहिवगन्धमाल्यामपार्यासुदक्षिणास्वीकारितचन्दनपुष्पमालाम् , पीतप्रतिवद्धवत्सां पयःपानानन्तर