________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् |
७६ इत्यनेनाधारस्य कर्मत्वम् । कर्मणि द्वितीया । प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः । कुशानां शयने संविष्टः सुप्तः सन् । तस्य वशिष्ठस्य शिष्याणामध्ययनेनापरराने वेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास । अपररात्रेऽध्ययने मनु:-'निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् । 'न चापररात्रमधीत्य पुनः स्वपेद्' इति गौतमश्च । प्रहर्पिणीवृत्तमेतत् । तदुक्तम्-'नौ जो गस्त्रिदशयतिः प्रहर्षिणीयम् ॥' इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया सञ्जीविनीलमाख्यया व्याख्यया ससेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
वशिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः।
अ०-सः, कुलपतिना, निर्दिष्टां, पर्णशालाम्, अध्यास्य, प्रयतपरिग्रहद्वितीयः, कुशशयने, संविष्टः, 'सन्' तच्छिष्याध्ययननिवेदितावसानां निशां निनाय ॥
वा०-तेन कुलपतिना निर्दिष्टां पर्गशालामध्यास्य प्रयतपरिग्रहद्वितीयेन कुशशयने निविष्टेन 'सता' तच्छिष्याध्ययननिवेदितावसाना निशा निन्ये ॥
सुधा-सः= पूर्वोक्तः, राजा दिलीप इति यावत् । कुलपतिना=मुनिकुलप्रभुणा, बशिष्ठेनेत्यर्थः । निर्दिष्टाम् = आज्ञप्तां, पर्णशालाम् = पर्णकुटी, पत्रादिनिर्मितगृहम्, अध्यास्य = अध्युष्य, तस्यामधिवासं कृत्वेत्यर्थः । प्रयतपरिग्रहद्वितीयः पवि. पत्नीसहायः, वंशादिना विशुद्धया भार्यया सुदक्षिणयाऽनुगम्यमान इति भावः । कुशशयनेदर्भशय्यायां, संविष्टः = सुप्तः 'सन्' इति शेषः। तच्छिण्याध्ययननिवेदितावसानां वशिष्ठछात्रवेदपाठज्ञापितान्तां, वशिष्ठमहर्षेरछात्राणां वेदाध्ययनेन सूचितावसानामित्यर्थः । निशां रजनी, निनाय-यापयामास । अस्मिन् पद्ये प्रहर्षिणी वृत्तं तल्लक्षणं यथा श्रुतबोधे-'आद्यं चेत् त्रितयमथाष्टमं नवान्त्यं सोपान्त्यं गुरु विरतौ सुभाषिते स्यात् । विश्रामो भवति महेशनेत्रदिग्भिर्विज्ञेया ननु सुभगे प्रहर्षिगी सा' इति ॥
स०-प्रयतः परिग्रहो द्वितीयो यस्य स प्रयतपरिग्रहद्वितीयः। शासितुं योग्याः शिष्याः तस्य शिष्यास्तच्छिष्याः तेषामध्ययनं तच्छिष्याध्ययनम् तच्छिण्याध्ययनेन निवेदितं तच्छिण्याध्ययननिवेदितम् तच्छिण्याध्ययननिवेदितमवसानं यस्याः सा तच्छिष्याध्ययननिवेदितावसाना तां तच्छिष्याध्ययननिवेदितावसानाम्, शेते. स्मिन्निति शयनं कुशानां शयनं कुशशयनं तस्मिन् कुशशयने।। ___ को०-'कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीवम्' इति मेदिनी । 'सजातीयैः कुलम्' इति चामरः । 'स्वामी, त्वीश्वरः पतिरीशिता । अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः' इत्यमरः।
ता०-स राजा दिलीपः कुलपतिना 'सजातीयमुनिगणस्वामिना वशिष्ठेनादि