________________
६२
रघुवंश महाकाव्यम् -
[ द्वितीय
सञ्जी० - पुरन्दरेति । पुरः पुरीरसुराणां दारयतीति पुरन्दरः शक्रः । 'पूः सर्वयोर्दा रिसहोः' इति खष्प्रत्ययः । ' वाचंयमपुरन्दरौ च' इति मुमागमो निपातितः । तस्य श्रीरिव श्रीर्यस्य स नृपः पौरैरभिनन्द्यमानः । उत्पताकमुच्छ्रितध्वजम् | 'पताका वैजयन्ती स्यात् केतनं ध्वजमखियाम्' इत्यमरः । पुरं प्रविश्य भुजङ्गेन्द्रेण समान सारे तुल्यवले | 'सारो बले स्थिरांशे च न्याय्ये क्लीवं वरे त्रिषु' इत्यमरः । भुजे भूयो भूमेर्धुरमाससञ्ज स्थापितवान् ।
अ० - पुरन्दरश्रीः, सः, पौरः, अभिनन्द्यमानः, उत्पताकम्, पुरं प्रविश्य, भुजं ङ्गेन्द्रसमानसारे, भुजे, 'भूयः, भूमेः, धुरम्, आससञ्ज ।
वा०-
- पुरन्दरश्रिया तेन पौरैरभिनन्द्यमानेन धूरासस ।
सुधा० -- पुरन्दरश्रीः = इन्द्रशोभः, स राजा दिलीपः, पौरैः = अयोध्यावासिजनै अभिनन्द्यमानः अभितुष्यमाणः, सन्निति शेषः । उत्पताकम् = उच्छ्रितकेतनम्, पुरं = नगरम्, प्रविश्य= प्रवेशं कृत्वा, भुजङ्गेन्द्रसमानसारे= सर्पराजतुल्यबले, भुजे = बाहौ भूयः = पुनः, भूमेः = पृथिव्याः, धुरं=भारम्, आससञ्ज = आलम्बनं कृतवान् । अस्मिन सर्गे प्रारम्भत एतावच्छ्रलोकावधि सर्वत्रोपजातिनामकं वृत्तं बोध्यं तल्लक्षणं यथा वृत्तरत्नाकरे – 'अनन्तरोदीरितलक्ष्मभाजौ पादी यदीयावुपजातयस्ता ' इति । तथा च क्वचित कचित् उपेन्द्रवज्रे स्याख्ये वृत्त अपि दृग्गोचरीभवतस्तलक्षणे क्रमत ऊह नीये यथा-उपेन्द्रवज्रा जतजास्ततो गौ' इति । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इति च ।
समा० - पुरन्दरस्य श्रोरिव श्रीर्यस्य पुरन्दरश्रीः । उच्छ्रिता पताका यस्मि स्तदुक्तिपताकं तत्तथोक्तम् । अभिनन्द्यतेऽसावित्यभिनन्द्यमानः । भुजाभ्यां गच्छ न्तीति भुजङ्गास्तेष्विन्द्रो भुजङ्गेन्द्रस्तेन समानो भुजङ्गेन्द्रसमानः स सारो यत्व स भुजङ्गेन्द्रसमानसारस्तस्मिंस्तथोक्ते । को० - 'श्रीर्लचम्यां सरलद्रुमे । वेषोपकरण वेषरचनायां सतौ गिरि । शोभा त्रिवर्गसम्पत्योः' इत्यने० ।
ता० पुरवासिप्रजाजनैः स्तूयमानः सन् स पुनः पृथिव्याः पालनरूपभारं घृतवान् । इन्दुः- इन्द्र के समान कान्ति बाले उन राजा दिलीप ने पुरवासियों से अभिनन्दन किये जाते दुए, जिसमें पताकायें फहरा रही थीं, ऐसे 'अयोध्या' नामक नगर में प्रवेश करके सर्पशन वालुकि के समान बल रखने वाले बाहु पर फिर पृथिवी के पालन रूप भार को धारण किया ॥ ७४ ॥ अथ नयनसमुत्थं ज्योतिरत्रेरिव यौः सुरसरिदिव तेजो बहिनिष्टतमैशम् नरपतिकुलभूत्यै गर्भमाधत्त राशी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥
सञ्जी० - अथेति । अथ द्यौः सुरवर्त्म 'द्यौः स्वर्गसुरवर्त्मनोः' इति विश्वः | अत्रेर्मह धैर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम् । 'आतश्चोपसर्गे' इति कप्रत्ययः । ज्योति रिव चन्द्रमिवेत्यर्थः । 'ऋक्षेशः स्यादत्रिनेत्रप्रसूतः' इति हलायुधः। चन्द्रस्यात्रिनेत्रोद्भ