________________
रघुवंशमहाकाव्यम्
[प्रथम:मासमुद्रक्षितीशानामानाकरथवर्मनां यथाविधिहुताग्नीनां यथाकामार्चितार्थिनां यथाऽपराधदण्डानां यथाकालप्रबोधिनां त्यागाय सम्भृतार्थानां सत्याय मितभाषिणां यशसे विजिगीषूणां प्रजाय गृहमेधिनां शैशवेऽभ्यस्तविद्यानां यौवने विषयषिणाम् वाईके सुनिवृत्तीनां योगेनान्ते तनुत्यजां, रघूणामन्वयो वक्ष्यते ॥
सुधा-'सोऽहं लब्धप्रवेशः' सोऽहमिति पदद्वयं पञ्चमश्लोकस्थमत्राध्याहृत्य व्याख्येयः श्लोकः। तनुवाग्विभवोऽपि = स्वल्पवचनैश्वर्योऽपि, तद्गुणैः रघुगुणैराजन्मशुद्धयादिभिः कर्तृभिः, कर्ण श्रोत्रम्, ममेति शेषः। आगत्य = प्राप्य, चापला य-चकुराय, चपलकर्म विचारमन्तरेण करणरूपं कर्तुमिति यावत् । प्रचोदितः प्रेरितः, सन् = भवन्, रघूणां = रघुवंश्यानां राज्ञामिति यावत् । अन्वयं = वंशं, तद्विषयकप्रबन्धमिति यावत् । वक्ष्ये = अभिधास्ये ॥
स०-वक्तीति वाक्, सैव विभवो वाग्विभवः, तनुर्वाग्विभवो यस्यासौ तनुवाग्विभवः॥ ___का०-'वंशोऽन्ववायः सन्तानः' इत्यमरः । 'तनुः काये त्वचि स्त्री स्यास्त्रिज्वल्पे विरले कृशे' इति मेदिनी । 'गीर्वाग्वाणी सरस्वती' इत्यमरः । 'विभवो रैमोक्षश्वर्य' इति मेदिनी । 'कर्णशब्दग्रही श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः इति । 'चपलश्चिकुरः समौ' इति चामरः॥ _ता--नामल्पवचनप्रसारः स्वयं रघुवंशविषयकप्रवन्धं रचयितुमुद्यतः, किन्तु रघुकुलगुणानां प्रेरणयेति ॥
इन्दुः-ऐसे रघुवंशियों के वंश को, मैं वाणी का वैभव थोड़ा होता हुए भी कान से सुनाई पड़े हुये, उन्हीं के गुणों के द्वारा विना विचार किये ही वर्णन करने के लिये, प्रेरणा किया हुआ कह रहा हूँ॥९॥ सम्पति स्वप्रबन्धपरीक्षार्थ सतः प्रार्थयतें
तं सन्तः श्रोतुमहान्त सदसद्वयाक्तहेतवः ।
हेम्न संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा ॥१०॥ सञ्जी०- मिति । तं रघुवंशाख्यं प्रवन्धं सदसतोगुणदोपयोय॑केतवः कर्तारः सन्तः श्रोतुमर्हन्ति । यथा हि । हेन्ना विशुद्धिनिर्दोषस्वरूपं श्यामिकाऽपि लोहान्तरसंसर्गात्मको दोषोऽपि वाइसौ संलच्यते। नान्यत्र । तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः । नान्य इति भावः ।
अन्वयः-सदसद्वयक्तिहेतवः, सन्तः, तं श्रोतुम्, अर्हन्ति, हि, हेम्नः, विशुद्धिः, श्यामिका, अपि, वा, अग्नौ, संलक्ष्यते । वा०--सदसद्वयक्तिहेतुभिः सद्भिः स श्रोतु. मद्यते, हि हेम्नो विशुद्धिं श्यामिकामपि वाऽग्नौ (सन्तः) संलक्षयन्ति ॥ _सुधा--सदसव्यक्तिहेतवः = गुणदोषविवेकविधातारः, सन्तः सुधियः, तं-रघुवंशाभिधं प्रवन्धं, श्रोतुम् =आकर्णयितुम्, अर्हन्ति = योग्या भवन्ति, हि = यतः, हेम्नः = सुवर्णस्य, विशुद्धिः-निर्दोषस्वरूपं, श्यामिकाऽपि नीलिकाऽपि, द्रव्यान्तर