________________
रघुवंशमहाकाव्यम्
[द्वितीय समा०-वनस्य द्विपा वनद्विपास्तेषां वनद्विपानाम् । अद्रेः कुक्षिरित्यद्रिकुक्षि स्तस्मिन्नद्रिकुक्षौ, अङ्कमागताः, अङ्कागताः, अङ्कागताश्च ते सत्वा अङ्कागतसरवाः, अागतसत्वा वृत्तिर्यस्मिस्तदकागतसत्ववृत्ति तत्तथोक्तम् ।
कोशः-'वृत्तिर्वर्तनजीदने' इत्यमरः ।
ता०–तत्कालादारभ्यैव शिवेन वन्यगजानां भयदर्शनार्थमस्यां गिरिगुहायां नियोजितोऽहं तदादेशात्समीपागतानेव जन्तून् भक्षयन् कालं यापयामि।
इन्दुः-उसी समय से जङ्गली हाथियों को डराने के लिये, शूल के धारण करने वाले श्रीशिवजी ने समीप में आये हुए प्राणियों पर निर्वाह करानेवाली सिंहवृति देकर मुझे इस पहाड़ की गुफा में नियुक्त किया है ॥ ३८॥
तख्यालमेषा क्षुषितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण | उपस्थिता शोणितपारणा से सुरद्विषश्चान्द्रमसी सुधेव ।। २६ ।।
सजी०-तस्येति । परमेश्वरेण प्रदिष्टो निर्दिष्टकालो भोजनवेला यस्याः सोप स्थिता प्राप्तैषा गोल्पा शोणितपारणा रुधिरस्य व्रतान्तभोजनं, सुरद्विषो राहो:, चन्द्रमस इयं चान्द्रमसी सुधेव, क्षुधितस्य बुभुक्षितस्य तस्याङ्कागतसत्ववृत्ते मम सिंहस्य तृप्त्यै अलं पर्याप्ता । 'नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च' इत्य नेन चतुर्थी।
अ०-परमेश्वरेण, प्रदिष्टकाला, उपस्थिता, एषा, शोणितपारणा, सुरद्विषः, चान्द्रमसी, सुधा, इव, क्षुधितस्य, मे तृप्त्यै, अलम् अस्ति।
वा०-प्रदिष्टकालयोपस्थितयतया शोणितपारणया सुरद्विषश्चान्द्रमस्या सुध घेव क्षुधितस्य मे तृप्त्यै अलं 'भूयते। ___ सुधा०-परमेश्वरेण महादेवेन, प्रदिष्टकला=निर्दिष्टसमया, उपस्थिताप्राप्ता, एषा असो, धेनुरूपा, शोणितपारणा रक्तवतान्ताशनं, सुरद्विषा दैत्यस्य, राहोः। चान्द्रमसी-ऐन्दवी, सुधा अमृतम्, इव यथा, धितस्यम्बुभुक्षायुक्तस्य तस्य समीपागतप्राणिमात्रजीविकावतः, मेन्मम, सिंहस्य । तृप्त्यै सौहित्याय, अलम्=पर्याप्ता।
समा०-प्रदिष्टः कालो यस्याः सा प्रदिष्टकाला। शोणितस्य पारणा शोणितपारणा । सुरान् द्वेष्टीति सुरद्विट् तस्य सुरद्विषः। ___को०-'ईश्वरः स्वामिनी शिवे मन्मथेऽपीश्वराऽद्रिजा' इति । 'रुधिरेऽसग्लोहि वास्नरक्तक्षतजशोणितम्' इति चानेकार्थसंग्रहामरौ। ___ ता०-चिरकाला बुभुक्षितस्याङ्कागतप्राणिवृत्त्या जीवनं यापयतो मे सम्यग बुभुक्षानिवृत्तये स्वयमत्र प्राप्ता एषा गोरूपा शोणितपारणा राहोश्चन्द्रसम्बन्धि पीयू षमिव पर्याप्ता भविष्यति।
इन्दुः-शिवजी के बताये हुये भोजन के समय पर उपस्थित यह गोरूप रुधिर सम्बन्धी व्रत के समाप्तिसमय का भोजन दैत्य राहु के लिए चन्द्रसम्बन्धी अमृत की