________________
२६
सर्गः] सखीविनी-सुधेन्दुटीकात्रयोपेतम् | अभ्यर्णम् = उपकण्ठम्, आगस्कृतम् = अपराधकारिणम्, अस्पृशद्भिः = अनामृशद्भिः, स्वतेजोभिः = आत्मप्रभावः, अन्तःमध्ये, अदात = अतप्यत।
समा०-बाह्वोः प्रतिष्टम्भो बाहुप्रतिष्टम्भः तेन विवृद्धो बाहुप्रतिष्टम्भविवृद्धः, बाहुप्रतिष्टम्भविवृद्धो मन्युर्यस्यासौ बाहुप्रतिष्टम्भविवृद्धमन्युः । आगः करोतीत्यागस्कृत् तमागस्कृतम् । स्वस्य तेजांसि स्वतेजांसि तैः स्वतेजोभिः। मन्त्रश्चौषधिश्वेति मन्त्रौषधी ताभ्यां रुद्धम् मन्त्रौषधिरुद्धम्, मन्त्रौषधिरुद्धं वीर्य यस्यासौ मन्त्रीषधिरुद्धवीर्यः। ___ कोशः-'मन्युर्दैन्ये क्रतौ क्रुधि' इति । 'भागोऽपराधो मन्तुश्च' इति । वीर्य बलेप्रभावे च' इति चामरः
ता०-बाहुस्तम्भेन प्रवृद्धरोषो दिलीपः समीपस्थमप्यपराधकारिणं सिंहं हन्तुम. समर्थो मन्त्रौषधिसंरुद्धपराक्रमः सर्प इव स्वतेजोभिरतप्यत । ___ इन्दुः-हाथके रुक जानेसे बढ़े हुए क्रोधवाले, राजा दिलीप, मन्त्र और औषधि से बाँध दिया गया है पराक्रम जिसका ऐसे सांप की भांति समीप में (स्थित) अपराधों को करने वाले का नहीं स्पर्श करते हुए अपने तेजसे भीतर जलने लगे।
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥३३॥
सजी०-तमिति । निगृहीता पीडिता धेनुर्येन स सिंहः। आर्याणां सतां गृहं पचयम् ‘पदास्वैरिबाह्यापक्ष्येषु च' इति क्विप्। मनुवंशस्य केतुं चिह्नं केतुवद्वयावर्तकम् । सिंह इवोल्सत्त्वो महाबलस्तम् । आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽभूतपूर्वत्वाद्विस्मितम् । कर्तरि क्तः। तं दिलीपं मनुष्यबाचा कारणेन पुनर्विमाययन्विस्मयमाश्चर्य प्रापयन्निजगाद । 'स्मिङ ईषद्धसने' इति धातोर्णिचि वृद्धावायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम् 'विस्मापयन्' इति पाठे पुगागममात्रं वक्तव्यम् । तच्च 'नित्यं स्मयतेः' इति हेतुभयविवक्षायामेवेति 'भीस्योहेतुभये' इत्यात्मनेपदे 'विस्मापयमान' इति स्यात् । तस्मान्मनुष्यवाचा विस्माययन्निति शुद्धम् । करणविवक्षायां न कश्चिदोषः।
अ०-निगृहीतधेनुः, सिंहः, आर्यगृह्यं, मनुवंशक्रेतुं, सिंहोरुसत्वम्, आत्मवृत्ती, विस्मितं, तं, मनुष्यवाचा, विस्माययन् निजगाद । वा०-निगृहीतधेनुना, र्सिहेनार्यगृह्यो मनुवंशकेतुः सिंहोरुसत्त्वो विस्मितः स विस्माययता निजगदे। ___ सुधा-निगृहीतधेनुः = पीडितनन्दिनीकः, सिंहः =केसरी, आर्यगृह्य-सज्जनपक्ष पातशीलम्, मनुवंशकेतुं वैवस्वतमनुकुललक्षणं, मनुकुलशेखरम्, सिंहोरुसरवं= केसरिविपुलबलम्, आत्मवृत्तौ निजबाहुस्तम्भरूपव्यापारे, विस्मितम् = आश्चर्यितं, तं=दिलीपं, मनुष्यवाचा= नरवचसा, करणे तृतीया बोध्या । पुनरिति शेषः । विस्माययन् = विस्मितं सम्पादयन्, निजगाद = अवोचत् ।