________________
२६
रघुवशमहाकाव्यम्
[द्वितीय शैलशोभादर्शनसतां दिलीपदृष्टिं यथा हयादीन् रश्मिषु गृहीत्वा सारथिर्निवर्तयति तथैव निवर्तयामास । ___इन्दुः-गुफा में टकराई हुई प्रतिध्वनि से ऊँचे हुए उस (नन्दिनी) के आतंनाद ने दुःखियों के विषय में सज्जन (रक्षक) राजा दिलीप की हिमालय पर्वत (की शोभा देखने) में लगी हुई दृष्टि को लगाम पकड़कर जैसे कोई घोड़े आदि को फेरता है वैसे ही अपनी ओर फेर लिया ॥ २८॥
स पाटलायां गांव तस्थिवांसं धनुधरः केसरिणं ददर्श।। अधित्यकायामिव धातुमय्यां लाद्रुमं सानुमतः प्रफुल्लम् ।। २६ ।।
सक्षी०-स इति । धनुर्धरः स नृपः पाटलायां रक्तवर्णायां गवि तस्थिवांसं स्थितम् , 'वसुश्च' इति वसुप्रत्ययः। केसरिणं सिंहम् । सानुमतोऽद्रः। धातोर्गेरिकस्य विकारो धातुमयी तस्यामधित्यकायामूर्ध्वभूमौ 'उपत्यकानेरासन्ना भूमिरूद्धमधित्यका' इत्यमरः। 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' इति त्यकन्प्रत्ययः। प्रफुल्लो विकसितस्तम् । 'फुल्ल विकसने' इति धातोः पचायच। 'प्रफुल्तम्' इति तकारपाठे 'जिफला विशरणे' इति धातोः कर्तरि कः 'ति च' इत्युदादेशः । लोध्राख्यं द्रुममिव ददर्श। ___अ०-धनुर्धरः, सः, पाटलायां, गवि, तस्थिवांसं, केसरिणं, सानुमतः, धातुम य्याम , अधित्यकायाम् , प्रफुल्लं, लोध्रदुमम्, इव, ददर्श ।
वा०-धनुर्धरेण तेन तस्थिवान् केसरी प्रफुल्लो लोध्रद्रुम इव ददृशे।
सुधा-धनुर्धरः =धानुष्कः, सः राजा दिलीपः। पाटलायां श्वेतरकायां, गवि सौरभेय्याम् , तस्थिवांसं = स्थितम् । केसरिणं = सिंह, सानुमतः पर्वतस्य, धातुमय्यां = गैरिकवत्याम् , अधित्यकायाम् ऊर्ध्वभूमौ, प्रफुल्लं-स्फुटं, लोध्रद्रुमं%= तिल्ववृक्षम् , इव = यथा, ददर्श = अपश्यत् । ___ समा०-धनुषो धरो धनुर्धरः । धातोगैरिकस्य विकारो धातुमयी तस्यां धातुमय्याम् । लोध्रश्चासौ द्रुमस्तं लोध्रद्रुमम् । सानूनि सन्त्यस्येति सानुमांस्तस्य सानुमतः।
को०-'श्वेतरक्तस्तु पाटलः' इति । 'धन्वी धनुष्मान् धानुष्को निषङ्गयस्त्री धनुर्धरः' इति । 'स्नुः प्रस्थः सानुरस्त्रियाम्' इति । 'प्रफुल्लोत्फुल्लसम्फुल्लव्याकोशविकचस्फुटाः । फुल्लश्चैते विकसिते' इति चामरः। ___ ता०-दिलीपः श्वेतरक्तवर्णायां नन्दिन्यामाक्रम्य स्थितं सिंह पर्वतस्य गैरिक. मय्यामूर्ध्वभूमौ विकसितं लोध्रवृक्षमिवापश्यत् ।। ___ इन्दुः-धनुष को धारण करनेवाले उन राजा दिलीप ने श्वेतयुक्त लालवर्ण वाली नन्दिनी के ऊपर बैठे हुए सिंह को पर्वत की गैरिक धातुमयी ऊँची भूमि में उगे हुए लोध्रवृक्ष को भांति देखा ॥ २९ ॥