________________
प्रथमः सर्गः
२३
क्षमाभुजां प्रतिकूलवत्तिनां राज्ञां शिरःसु दानात् विधानात् इदम् अस्य नलस्य पदम् ऊध्वंम् उत्कृष्टम् ऊर्ध्वस्थितश्च पुरा भवति भविष्यतीत्यर्थः । ' यावत् पुरानिपातयोर्लट्' इति पुराशब्दयोगात् भविष्यदर्थे लट् । इति इदं मत्वा इति शेषः, गम्यमानार्थत्वादप्रयोगः । वेधसा विधात्रा कर्त्रा ऊर्ध्वरेखया अङ्कितं चिह्नितं किम् ? ‘ऊर्ध्वरेखाङ्कितपद : सर्वोत्कर्षं भजेत् पुमानि 'ति सामुद्रिकाः । सौन्दर्यसुलक्षणा म्यां युक्तमस्य पदमिति भावः ॥ १८ ॥
अन्वयः--कमलप्रवालयोः अधोविधानात् अखिलक्षमाभुजां शिरस्सु दानात् अस्य पदम् कष्वं पुरा भवति - इति वेधसा इदम् ऊर्ध्वरेखया अङ्कितं किम् ?
हिन्दी- - कमल और प्रवाल को नीचा करने और समस्त पृथ्वीपतियों के शिरों पर स्थित होने के कारण इस ( नल ) का चरण आगे चलकर ऊँचा रहेगा - मान्य होगा, इसी कारण क्या विधाता ने उसके चरण को ऊर्ध्व रेखाओं से पहले से ही चिह्नित कर दिया था ।
टिप्पणी - सामुद्रिक शास्त्र के अनुसार चक्रवर्ती के चरण में ऊर्ध्वं रेखाएँ अंकित होती हैं, वे नल के चरण में भी थी, उसी पर यह कवि की कल्पना हैसम्भावना, अतः स्पष्टतः उत्प्रेक्षा है ॥ १८ ॥
जगज्जयं तेन च कोशमक्षयं प्रणीतवान् शैशवशेषवानयम् । सखा रतीशस्य ऋतुर्यथा वनं वपुस्तथालिङ्गदथास्य यौवनम् ॥ १९ ॥ जीवातु - अथ अस्य यौवनागमं क्रमेण वर्णयति - जगदित्यादिभिः । अयं नलः शैशवशेषवान् ईषदवशिष्टशैशव एवेत्यर्थः । जगतां जयं तेन च जयेनेत्यर्थः । कोषं घनजातम् अक्षयं प्रणीतवान् कृतवान् । अथानन्तरं रतीशस्य कामस्य सखा ऋतुः वसन्त इत्यर्थः । वनं यथा यौवनम् अस्य नलस्य वपुः शरीरं तथा आलिङ्गत संश्लिष्टवत् । उपमालङ्कारः ॥ १९ ॥
अन्वयः - शैशवशेषवान् अयं जगज्जयं तेन च कोशम् अक्षयं प्रणीतवान्, अथ रतीशस्य सखा ऋतुः यथा वनं तथा यौवनम् अस्य वपुः अलिङ्गन् ।
हिन्दी -- जिसकी बाल्यावस्था अभी शेष है - अर्थात् षोडशवर्षीय इस ( नल) ने जगत् विजय करके अपने कोष को अक्षय बना दिया, अनंतर जैसे रतिपति काम का सखा ऋतु वसंत वन में आता है, वैसे ही यौवन ने इसके शरीर का आलिंगन किया ।