________________
प्रथमः सर्गः
२१
उत्सर्गजलानां व्ययः दानाम्बुप्रक्षेपैः मरुः निर्जलदेशः न कृतः इति यत् तत् तस्मात् तेन नलेन द्विफालबद्धाः द्वयोः फालयोः शिरःपार्श्वयोः बद्धा रक्षिता इति यावत्, फलतेविंशरणार्थे अप्प्रत्ययः। विलासिनां पुंसां सीमन्तितशिरोरुहत्वात् चिकुराणां द्विफालबद्धत्वमिति भावः, द्विघा विभक्ता इति यावत् । चिकुराः केशाः "चिकुरः कुन्तलो बाल: कचः केशः शिरोरुह' इत्यमरः शिरःस्थितं मस्तकघृतमिति भावः, निजं स्वीयम् अयशोयुगम् अपकीत्तिद्वयं पूर्वोक्तमेरुविभागसिन्धुजलव्ययाकरणजनितमिति भावः । अमानि केशरूपेण द्विधा स्थितं स्वशिरसि अयशोयुगमेव तिष्ठति इति अमन्यत इत्यर्थः । अयशसः पापरूपत्वात् कृष्णवर्णनं कविसमयसिद्धम् 'तथा च मालिन्यं व्योम्नि पापे' इत्यादि । उद्देश्यविधेयरूपं कर्मद्वयम् । केशेषु कार्ण्यसाम्यात् अयशोरूपणमितिं व्यस्तरूपकम् ॥ १६ ॥
अन्वयः-यत् मेरुः विभज्य अथिसात् न कृतः सिन्धुः उत्सर्गजलव्ययः मेरुः न कृतः ( अथवा मेरुः उत्सर्गजलव्ययः सिन्धुः न कृतः ), तत् तेन द्विफालबद्धाः चिकुराः शिरः स्थितं निजायशोयुगम् अमानि ।
हिन्दी-जो कि सुमेरुगिरि को खण्ड-खण्ड करके याचकों के अधीन नहीं कर दिया, और दानार्थ जल उलीचते-उलीचते समुद्र को मरुस्थल नहीं बना दिया ( अथवा दान नल से मरुस्थल को समुद्र नहीं बना दिया ) सो उस (नल) ने ( बीच में माँग निकाल कर काढ़े गये ) दोनों ओर करके सँवारे गये अपने केशों को अपने शिर:स्थित-शिरोधार्य-अयश के प्रतीकरूप स्वीकारा ।
टिप्पणी-कवि का भाव यह है कि कल्पवृक्ष से भी अधिक याचकों की इच्छा पूर्ण करने पर भी नल की इच्छा भरी नहीं यो, वह अभूतपूर्व दान करना चाहता था, जो न कर सकने के कारण अपने को असंतुष्ट मानता था।
काले केशों की समता कविसमयस्वीकृत अयश से होने के कारण मल्लिनाथ ने यहां व्यस्तरूपक माना है। केशों की केशता का निषेध करके उन्हें अयशोयुग्म मानने की कल्पना के कारण साहित्य विद्याधरी-कार इस श्लोक में अपहनुति मानते हैं ॥१६॥
अजस्रमभ्यासमुपेयुषा समं मुदेव देवः कविना बुधेन च । दधौ पटीयान् समयं नयनयं दिनेश्वरश्रीरुदयं दिने दिने ॥ १७ ॥