________________
५०
नैषधमहाकाव्यम् वज्र हैं, सो दाहकता से युक्त हैं । विद्याधर के अनुसार अनुपमान और मल्लिनाथ के अनुसार उत्प्रेक्षा।। ५९ ।।
तदिहानवधौ निमज्जतो मम कन्दर्पशराधिनीरधौ।
भव पोत इवावलम्बनं विधिनाऽकस्मिकसृष्टसन्निधिः॥ ६० ॥ जीवातु-तदिति । तत्तस्मादिहास्मिन्ननवधौ अपारे कन्दर्पशरैर्य आविमनोव्यथा 'पुंस्याधिर्मानसी व्यथे'त्यमरः । तस्मिन्नेव नीरधी समुद्रे निमज्जतो अन्तर्गतस्य मम विधिना दैवेनाकस्मादकाण्डे भवमाकस्मिकमध्यात्मादित्वात् ठक्, अव्ययानाम्भमात्रे टिलोपः तद्यथा तथा सृष्टसन्निधिःसन्निधानं भाग्यादागत इत्यर्थः । त्वं पोतो यानपात्रमिव 'यानपात्रन्तु पोत' इत्यमरः । अवलम्बनं भव ।।
अन्वयः-तत् इह अनवधौ कन्दपंशराधिनीरधौ निमज्जतः मम विधिन आकस्मिकसृष्टसन्निधिः पोत इव अवलम्बनं भव ।
हिन्दी-सो इस निर्मर्याद कामबाणजातव्यथा-समुद्र में डूबते मेरे विधाता द्वारा जो अकस्मात् निकट भेज दिया गया है, उस जलयान की भांति आश्रय बनो।
टिप्पणी-विरह-व्यथा-सागर में डूबते नल को हंस देवादिष्ट जलयान के समान सहायक-आलंबन प्रतीत हुआ। रूपक-उपमा की संसृष्टि ॥ ६० ।
अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः ?। स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥ ६१॥ जीवातु-अथवेति । अथवा इयं नोऽस्माकं सम्बन्धिनी 'उभयप्राप्ती कर्मणीति नियमात् कर्तरि कृद्योगे षष्ठीनिषेधेऽपि शेषषष्ठीपर्यवसानात् कर्बर्थलाभः । भवतः 'उभयप्राप्ती कर्मणी'ति षष्ठी, प्रवर्तना प्रेरणा ‘ण्यासश्रन्थो युच', कथं पिष्टं न पिनष्टि ? स्वतः प्रवृत्तिविषयत्वात् पिष्टपेषणकल्पेत्यर्थः । हि यस्माद् ग्रहणानां ज्ञानानां यथार्थता याथार्थ्यं यथा प्रामाण्य मिव स्वतः सर्वप्रमाणानां प्रामाण्यमिव 'गृह्यतां जाता मनीषा स्वत एव मानमि'ति मीमांसकाः। सतां परार्थता परार्थप्रवृत्तिः स्वत एव न तु परतः । उपमासंसृष्टोऽर्थान्तरन्यासः ।
अन्वयः-अथवा नः इयं भवतः प्रवर्त्तना कथं पिष्टं न पिनष्टि, हि यथा ग्रहणानां यथार्थता स्वतः एव ( तथा ) सतां परार्थता ( अपि स्वतः एव )।