________________
द्वितीयः सर्गः
सहला कर सांत्वना देते हैं। तन्द्रालु मृग को खुजलाना मृग-स्वभाव है। दशंनीय-'शृङ्गण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः'। ( कालिदास, कुमारसंभव )। मल्लिनाथ के अनुसार अपह नुति-अलंकार और विद्याधर के अनुसार समासोक्ति तथा अपह नुति, चंद्र कलाकार के अनुसार कैतवापह नुति प्रतीयमानोत्प्रेक्षा की संसृष्टि ।। २१ ।।
अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अपि । ध्रुतिगामितया दमस्वसुर्व्यतिभाते सुतरां धरापते ! ॥ २२॥
जीवात-अपीति। हे धरापते ! दमो नाम भीमस्यैवात्मजस्तस्य स्वसुर्दमन्त्याः लोकयुगं माता पितृकुलयुगं श्रुतिगामितया वेदप्रसिद्धतया सुतरां व्यतिभाते परस्परोत्कर्षेण भाति तथा दृशौ नेत्रे अपि श्रुतिगामितया कर्णान्तविश्रान्ततया व्यतिभाते परस्परोत्कर्षेण भातस्तथा श्रुताः श्रुतिप्रसिद्धाः ते च ते दृष्टाः लोकप्रसिद्धाश्च विशेषणयोरपि विशेषणविशेष्य भावविवक्षायां विशेषणसमासः, ते रमणीगुणाः स्त्रीधा अपि श्रुतिगामितया जनैः श्रूयमाणतया 'श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणी'ति विश्वः । सुतरां व्यतिभाते व्य तिहारेण भान्ति । 'आत्मनेपदेष्वनत' इति झस्यादादेशः, सर्वत्र 'कर्तरि कर्मव्यतिहार' इत्यात्मनेपदम्, अदादित्वाच्छपो लुक्, सर्वत्र टेरेत्वम् । अत्र लोकयुगादीनान्त्रयाणामपि प्रकृतत्वात् केवलप्रकृतविषयतुल्ययोगिताभेदः । 'प्रस्तुता प्रस्तुतानाञ्च केवलं तुल्यवर्मतः। औपम्यं गम्यते यत्र सा मता तुल्ययोगिते'ति लक्षणात् ।। २२ ॥
अन्वयः--धरापते, दमस्वसुः लोकयुगं, दृशौ, श्रुतदृष्टाः रमणीगुणाः अपि श्रतिगामितया सुतरां व्यतिभाते ।
हिन्दी-हे धरणी के स्वामी, दमस्वसा ( दमयन्ती) के दोनों कुल ( मातृ-पितृ कुल ), दोनों नेत्र और सुने देखे रमणीजनोचित सौन्दर्यादि गुण मी श्रुतिगामी ( जगद्विख्यात मातृपितृकुल ), कान तक फैले ( विशाल नयन ) तथा लोकवर्णन-विषय ( रमणीगुण ) होने से परस्पर अत्यन्त सुशोभित आते हैं।
२ नं० द्वि०