________________
द्वितीयः सर्गः अचिरादुपकर्तुराचरेदथवात्मौपयिकोमुपक्रियाम् । पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥१४॥ ___ जीवात-अथवा यथाशक्तिपक्षोऽस्त्वित्याह-अचिरादिति । अथवा उपकर्तुरचिरादविलम्बादुपाय एवोपयिकः, विनयादित्वात् स्वार्थे ठक् 'उपधाया ह्रस्वत्वञ्चति ह्रस्वः, तत आगता औपयिकी तामात्मौपयिकी स्वोपायसाध्यामित्यर्थः, 'तत आगत' इत्यण् प्रत्यये 'टिड्ढाणजि'त्यादिना ङीप् । उपक्रियामाचरेत् प्रत्युपकारं कुर्यात्, चरघातोविधिलिङ् । इत्थमेवं सति सोपक्रिया पृथुरधिकाऽस्तु अथ अथवा अणुरल्पाऽस्तु विदुषां विवेकिनामिहास्मिन् विषये विशेपे ग्रह आग्रही न । गुणग्रा हिणो विवेकिनः कृतज्ञतामेव अस्य पश्यन्ति, न दोपमन्विष्यन्तीत्यर्थः ॥१४॥
अन्वयः-अथवा अचिरात् उपकत: औपयिकी क्रियाम् आचरेत्, इत्थं सा पृथुः अथ अणुः अस्तु, इह विदुषां ग्रहः न ।
हिन्दी - इसके अतिरिक्त यह भी है कि अविलम्ब उपकारक का प्रिय ( प्रत्युपकार ) अपने द्वारा साध्य उपाय से करे, इस स्थिति में वह कार्य बड़ा है अथवा छोटा, इसका समझदारों में कोई आग्रह नहीं होता।
टिप्पणी-भाव यह है कि प्रत्युपकार तुरन्त करना उचित है, छोटे-बड़े की चिन्ता किये बिना अपनी शक्ति भर उपकारी का प्रिय साधन अविलम्ब करना विद्वज्जनानुमोदित है। अप्रस्तुत-प्रशंसा और छेकानुप्रास ॥ १४ ॥
भविता न विचारचारु चेत्तदपि श्रव्यमिदं मदीरितम् । खगवागियमित्यतोऽपि किं न मुदं दास्यति कीरगीरिव ॥ १५ ॥
जीवात-अथ स्ववाक्ये आदरं याचते-भवितेति । हे नृप ! इदं वक्ष्यमाणं मदीरितं मट्टचः मद्वचनं विचार विमर्श चारु युक्तं न भविता न भविष्यति चेत्तदपि अविचारितरमणीयमपि श्रव्यं श्रोतव्यम् । इयं खगवागित्यतोऽपि हेतोः कीरगीः शुकवा गिव मुदं किं न दास्यति दास्यत्येव । प्रयोजनान्तराभावेऽपि कौतुकादपि श्रोतव्यमित्यर्थः, ददातेः लृट् ॥ १५ ॥
अन्वयः-इदं मदीरितं विचारचारु न भविता चेत् तदपि श्रव्यम्, इयं खगवाक्, इत्यतः अपि कीरगी: इव कि मृदु न दास्यति ?