________________
११८
नैषधमहाकाव्यम् __ जीवात-अपीति । अपि चेत्यपेरर्थः । अद्यास्मिन् दिने 'सद्यःपरुदि'त्यादिना निपातः स्वयूथ्यः स्वसङ्कवरहसः कर्तृभिरशनिक्षतोपमं वज्रप्रहारप्रायं ममेमं वृत्तान्तम् अनर्थवात्ती उदिता उक्ता सती वदेब्रू अर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः 'वचिस्वपी'स्यादिना सम्प्रसारणं, हे लोलाक्षि ! दशदिशां मुखानि शून्यान्यलक्ष्याकाराणि विलांकरिष्यसि असंशयं सन्देहो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः, वतेति खेदे ।। १३९ ॥
अन्वयः--अपि अद्य स्वयूथ्यः अशनिक्षतोपमं मम वृत्तान्तम् उदिता लोलाक्षि, असंशयं दश अपि दिशां मुखानि शून्यानि विलोकयिष्यसि बत !
हिन्दी-और आज अपने दल के साथी हंसों द्वारा वज्राघात के समान मेरा वृत्तांत कहे जाने पर खेद है, कि हे चंचल नयनों वाली, निःसंदेह दशों ही दिशाओं के मुख तुझे सूने दिखायी पड़ेंगे।
टिप्पणी--वज्र का हदय भी द्रवीभूत करने वाले और पत्थर को भी मोम कर देने वाले स्वाभाविक करुणा जागरित करनेवाले वचन । अनुप्रास और उपमा ॥१३९।।
ममैव शोकेन विदीर्णवक्षसा त्वयाऽपि चित्राङ्गि! विपद्यते यदि । तदस्मि देवेन हतोऽपि हा हतः स्फुटं यतस्ते शिशवः परासवः ॥१४०॥
जीवातु--ममैवेति । हे चित्राङ्गि! लोहितचञ्चुचरणत्वाद्विचित्रगात्रे ! मम शोकेनैव मद्विपत्तिदुःखेनैव विदीर्णवक्षसा विदलितहृदा त्वया विपद्यते म्रियते यदि तत्तहि देवेन हतः स्फुटं व्यक्तं पुनहतोऽस्मि हेति विषादे, 'हा विस्मयविषादयोरिति विश्वः। कुतः ? यतः ते शिशवः परासवो मातुरभावे पोषकाभावान्मृताः, अतः शिशुमरणभावनया द्विगुणितं मे मरणदुःखं प्राप्तमित्यर्थः ।। १४० ॥ ___ अन्वयः--चित्राङ्गि, यदि मम शोकेन विदीर्णवक्षसा त्वया अपि विपद्यते, हा, तद, देवेन हतः स्फुटः हतः अस्मि, यतः ते शिशवः परासवः।
हिन्दी--हे सुन्दर शरीर वाली, यदि मेरे शोक में वक्ष फट जाने से तू भी मर जायेगी, हाय, तो देव द्वारा मारा मैं और मारा जाऊँगा, क्योंकि तेरे बिना तेरे छोटे बच्चे भी मर जायेंगे।