________________
११२
नैषधमहाकाव्यम्
राजा के लिए थोड़ा-सा स्वर्ण वसे नगण्य है, जैसे जलनिधि समुद्र को ओस की बूदें । विद्याधर के अनुसार उपमा, चंद्रकलाव्याख्याकार के अनुसार अमा-श्लेष की संसृष्टि ।।१३०॥
न केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः । विहितं धर्मधर्नर्निबर्हणं विशिष्य विश्वासजुषां द्विषामपि ॥१३१॥
जीवातु-नेति । हे नृप ! त्वदीक्षणात् त्वन्मूत्तिदर्शनादेव विश्वसितान्तरात्मनो विस्रब्धचित्तस्य विश्वस्तस्येत्यर्थः मम वधः केवलं प्राणिमात्रवघो न किन्तु विश्वासघातपातकमित्यर्थः। ततः किमत आह-विश्वासजुषां विस्रम्भभाजां द्विषामपि निबर्हणं हिंसनं धर्मधनैर्धर्मपरैः मन्वादिभिः विशिष्या. तिरिच्य विगर्हितमत्यन्तनिन्दितमित्यर्थः ॥ १३१ ॥
अन्वयः--त्वदीक्षणात् विश्वसितान्तरात्मनः मम वधः केवलं प्राणिवधः न, विश्वासजुषां द्विषाम् अपि निबर्हणं धर्मधन: विशिष्य विहितम् ।
हिन्दी-तुम्हें देखकर जिसके मन में विश्वास जाग गया था, उस विश्वस्तमना मेरी हत्या केवल जीवहिंसा नहीं है, विश्वास को प्राप्त शत्रुओं को भी मारने की धर्मात्माओं ने विशेष निंदा की है।
टिप्पणी-विश्वासघात तो अपराधी शत्र से भी उचित नहीं ठहराया जाता, मैं तो निरीह, निरपराध पक्षी हूँ, मेरी हत्या तो अत्यंत निन्दनीय है। विदग्धानुप्रास और काव्यलिंग का विद्याधर द्वारा उल्लेख, चंद्रकलाकार के अनुसार अर्थान्तरन्यास-अर्थापत्ति का संकर ।।१३१॥
पदे पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्यते ? । धिगीदृशन्ते नृपतेः कुविक्रम कृपाश्रये यः कृपणे पतत्रिणि ॥ १३२ ।।
जीवातु--पदे पद इति । रणोद्भटाः रणेषु प्रचण्डाः भटा योधाः पदे-पदे सन्ति सर्वत्र सन्तीत्यर्थः, वीप्सायां द्विर्भावः एष हिंसारसो हिंसारागस्तेषु भटेषु न पूर्यते अत्र काकुः न पूर्यते किमित्यर्थः । नृपतेर्महाराजस्य ते तव ईदृशमवध्यवधरूपं कुविक्रमं धिक् यः कुविक्रमः कृपाश्रये कृपाविषये अनुकम्पनीये कृपणे दीने पतत्रिणि क्रियत इति विशेषः ॥ १३२ ॥