________________
१०८
नैषधमहाकाव्यम्
तदात्तमात्मानमवेत्य संभ्रमात् पुनः पुनः प्रायसदुत्प्लवाय सः । गतो विरुत्योड्डयने निराशतां करौ निरोधुर्दशति स्म केवलम् ॥ १२५ ॥ __ जीवातु-तदिति । स हंसः आत्मानं तदा तु तेन नलेनात्तं गृहीतमवेत्य ज्ञात्वा सम्भ्रमादुत्प्लवायोत्पतनाय पुनः पुनः प्रायसदायस्तवान् । यसु प्रयत्न इति धातोलङि पुप्षा दित्वात् च्लेरङादेशः । उड्डयने उत्पतने निराशतां गतो विरुत्य विक्रुश्य निरोद्धः ग्रहीतुः करौ केवलं करावेव दशति स्म दष्टवान् । अत्रापि स्वभावोक्तिरेव ॥ १२५ ।।
अन्वयः--सः आत्मानं तदात्तम् अवेत्य संभ्रमात् उत्प्लवाय पुनः पुनः प्रायसत् ( किंतु ) उड्डयने निराशतां गतः विरुत्य केवल निरोद्धः करौ दशति स्म।
हिन्दी--वह ( हंस ) अपने को नल के अधीन जान कर आतंकित हो वारंवार उड़ने का प्रयत्न करने लगा, किन्तु उड़ने में निराशा को प्राप्त हो केवल दीन शब्द करता हुआ पकड़नेवाले नल के हाथों को काटने लगा।
टिप्पणी-यह पक्षी का स्वभाव है कि इस दशा में फड़फड़ाता और चिल्लाता-काटता है । स्वभावोक्ति ॥१२५॥
ससम्भ्रमोत्पातिपतत्कुलाकुलं सरः प्रपद्योत्कतयाऽनुकम्पिताम् । तमूर्मिलोलैः पतगग्रहान्नृपं न्यवारयद्वारिरुहः करैरिव ॥ १२६ ।।
जीवातु-स इति । ससम्भ्रमं सत्वरमुत्पातिना उड्डीयमानेन पतत्कुलेन पक्षिसङ्घनाकुलं सकुलं सरः कर्तृ उत्कतया उन्मनस्तया 'उत्क उन्मना' इति निपातना दिविधानाच्च साधुः । अनुकम्पितां प्रपद्य कृपालुतां प्राप्य तं नृपमूर्मिलोलेश्वलैर्वारिरहैः करैरिति व्यस्तरूपकम्, पतगग्रहात्पक्षिग्रहात् न्यवारयदिवेत्युत्प्रेक्षा। वास्तवनिवारणासम्भवादुत्प्रेक्षा, निवारणस्य करसाध्यत्वात् तत्र रूपकाश्रयणम्, अत एवेवशब्दस्य उपमाबाधेनार्थानुसाराद्वयवहितान्वयेनाप्युस्प्रेक्षाव्यजकत्वमिति, रूपकोत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करः ॥ १२६ ॥
अन्वयः-ससंभ्रमोत्पातिपतत्कुलाकुलं सरः उत्कतया अनुकम्पिताम् ( अनुकम्प्रताम् ) प्रपद्य तं नृपम् अमिलोलैः वारिरुहै: करः इव पतगग्रहात्-न्यवारयत् ।