________________
प्रथमः सर्गः
महीयसः पङ्कजमण्डलस्य यश्छलेन गौरस्य च मेचकस्य च । नलेन मेने सलिले निलीनयोस्त्विषं विमुञ्चन् विधुकालकूटयोः ॥ ११३ ॥
जीवात-महीयस इति । यस्तडागः महीयसो महत्तरस्य गौरस्य च मेचकस्य च पङ्कजमण्डलस्य सितासितसरोजयोश्छलेन सलिले निलीनयोः विधुकालकूटयोः सितासितयोरिति भावः। त्विषं विमुञ्चन् विसृजन्निव नलेन भने । अत्रच्छलेन विमुञ्चन्निवेति सापह्नवोत्प्रेक्षा ॥ ११३ ॥
अन्वयः-नलेन यः महीयसः गौरस्य मेचकस्य च पङ्कजभण्डलस्य छलेन सलिले निलीनयोः विधुकालकूट योः त्विषं विमुञ्चन् मेने ।
हिन्दी-नल ने जिसे अत्यन्त शुभ्र और अत्यन्त नील कमलसमूह के छल से जल में छिपे चंद्र और कालकूट विष की छटा छोड़ते हुए माना।
टिप्पणी-श्वेत कमल चंद्र के और नील कमल कालकूट के प्रतीक हैं । विधु से कुछ विद्वान् 'अमृत' का संकेतार्थ भी लेते हैं, क्योंकि आधार से आधेय का भान हो सकता है, चंद्र को अमृतदीधिति कहा ही जाता है । अमृत-विष का विरोधी युग्म भी है । सापह्नवा उत्प्रेक्षा अथवा इन दोनों का संकर ।
चलीकृता यत्र तरङ्गरिङ्गणैरबालशैवाललतापरम्पराः। ध्रुवन्दधुडिवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमताम् ॥ ११४ ॥
जीवातु--चलीकृता इति । यत्र यस्मिन् तडागे तरङ्गरिङ्गणस्तरङ्गकम्पनाश्चलीकृता: चञ्चलीकृताः अबालानां कठोराणां शैवाललतानां परम्पराः पंक्तयः हव्यं वहतीति हव्यवाडवाग्निः 'वहश्चेति ण्विप्रत्ययः । तस्यच्छन्दोमात्रविषयत्वाद् अनादरेण भाषायां प्रयोगः। वाडवहव्यवाहो वाडवाग्नेरेव स्थित्याऽन्तरवस्थानेन प्ररोहत्तमो बहिः प्रादुर्भवत्तमो भूमा येषान्ते च धूमाश्च तेषां भावस्तत्ता तां दधुः । बहिरुत्थितघूमपटलवबभुरित्यर्थः। ध्रुवमित्युप्रेक्षायाम् ॥ ११४ ॥
अन्वया--यत्र तरङ्गिणः चलीकृता अबालशवाललतापरम्पराः वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमतां ध्र वं दधुः ।
जहाँ लहरों के कंपन से चंचल बड़ी-बड़ी शैवाल की बेलें वाडवाग्नि की स्थिति के कारण ऊपर उठते प्रचुर घूम की निश्चयतः धारणा बना रही थीं।