________________
९६
नैषधमहाकाव्यम्
तटान्तविश्रान्ततुरङ्गमच्छटास्फुटानुविम्बोदय चुम्बनेन यः । बभौ चलठ्ठीचिकशान्तशातनैः सहस्रमुच्चैःश्रवसामिव श्रयन् ॥ १०९ ॥ जीवातु-तटान्तेति । यस्तडागस्तटान्ते तीरप्रान्ते विश्रान्ता या तुरङ्गमच्छटा नलानीताश्वश्रेणी तस्याः स्फुटानुबिम्वोदयचुम्बनेन प्रकट प्रतिबिम्बा विर्भाव प्रीत्या निमित्तेन च एकैकशस्तासां वीचीनां कशानामन्तैः शातनैरुग्रताडनैः, 'अश्वादेस्ताडनी कशे'त्यमरः, चलदुल्ललदुच्चैःश्रवसां सहस्रं श्रयन् प्राप्नुवन्निव बभा - वित्युत्प्रेक्षा, व्यतिरेकश्च पूर्ववत् । एतेन नलाश्वानामुच्चैःश्रवःसाम्यं गम्यत इत्यलङ्कारेण वस्तुध्वनिः ॥ १०९ ॥
"
अन्वयः - यः तटान्तविश्रान्ततुरङ्गमच्छटास्फुटानु बिम्बोदयचुम्बनेन वीचिकशान्तशातनैः चलत् उच्चैःश्रवसां सहस्रं श्रयन् इव बभौ ।
हिन्दी - जो ( तडाग ) तीर पर विश्राम करते नल के अश्वों के स्पष्ट उभरते प्रतिबिम्बों के चुम्बन ( संबंध ) से ( व्याज से ) लहर रूपी चाबुक की मार खाकर चलते हजारों उच्चैःश्रवा ( नाम के इंद्राश्वों ) को धारण करता सुशोभित हो रहा था ।
टिप्पणी- - इस श्लोक में नलावों की प्रतिच्छाया से अनेक इन्द्राश्वों की संभावना की गयी । विद्याधरने यहाँ अपहनुति, रूपक और उत्प्रेक्षा अलंकारों का निर्देश किया है, मल्लिनाथ ने उत्प्रेक्षा व्यतिरेक के साथ-साथ 'नलाखों का उच्चैःश्रवा के सदृश होना' गभ्य मानकर अलंकार से वस्तुध्वनि भी। चंद्रकलाकार वस्तुध्वनि के साथ रूपक और उत्प्रेक्षा का निर्देश करते हैं ।। १०९ ।। सिताम्बुजानां निवहस्य यश्छलाद् बभावलिश्यामलितोदरश्रियाम् । तमःसमच्छायकलङ्क सङ्कलं कुलं सुधांशोर्बहलं वहन् बहु ॥११०॥
जीवातु - - सितेति । यस्तडागः अलिभिः श्यामलितोदर श्रियां श्यामीकृतमध्यशोभानां सिताम्बुजानां पुण्डरीकाणां निवहस्य च्छलात् तमःसमच्छायः तिमिरवर्णः यः कलङ्कः तेन सङ्कुलं बहलं सम्पूर्णम्बह्वनेकं सुधांशोश्चन्द्रस्य कुलं वंशं वहन् सन् बभौ । अत्र च्छलशब्देन पुण्डरीकेपु विषयापह्नवेन चन्द्रत्वाभेदादपह्रवभेदः, व्यतिरेकस्तु पूर्ववत् ॥ ११० ॥