________________
प्रथमः सर्गः
टिप्पणी-वियोगी को 'तुहिनदीधिति' भी 'दवदहन' प्रतीत होता है, सो सुख-साधन भी विरही नल के खेद के कारण ही बने, वास्तविक आनंद उसे न मिल पाया । उक्तिनिमित्ता विशेषोक्ति । १०४।।
करेण मीनं निजकेतनं दधद् द्रुमालवालाम्बुनिवेशशङ्कया। व्यतकि सर्वर्तुघने वने मधुं स मित्रमत्रानुसरन्निव स्मरः ॥ १०५ ।।
जीवातु-करेणेति । स नल: निजकेतनं निजलाञ्छनं मीनं द्रुमालवालाम्बुषु निवेशशङ्कया प्रवेशभिया करेण दधत् तादृक् शुभरेखाव्याजेन दधान इत्यर्थः, सर्वतुघने सर्वर्तुसङ्कुले अत्र अस्मिन् वने मित्रं सखायं मधु वसन्तमनुसरन् अन्विष्यन् स्मर इव व्यतकि इत्युत्प्रेक्षा ।। १०५ ॥ __ अन्वयः-सः निजकेतनं मीनं द्रुमालवालाम्बुनिवेशशङ्कया करेण दधत्. सर्वर्तुघने अत्र वने मित्र मधुम् अनुसरन् स्मरः इव व्यतकि ।
हिन्दी-उस (राजा) ने कहीं वृक्षों के चारों ओर बने आलवालों (थालों) के जलमें प्रविष्ट न हो जाय --इस भय से अपने ध्वज के मत्स्य को हाथ से पकड़ सब ऋतु से परिपूर्ण ( अथवा सब ऋतुओं में घन अर्थात् हरे-भरे रहने वाले ) उस वन में वसंतसखा का अनुसरण करते-जैसे कामदेव की तर्कणा की।
टिप्पणी-'सदाबहार' उस वन में विरही नल को चारों ओर कामसाम्राज्य ही प्रतीत हुआ। मल्लिनाथ के अनुसार उत्प्रेक्षा, विद्याधर के अनुसार अनुप्रास-उत्प्रेक्षा ॥१०॥
लताऽबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः । असेवतामु मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनानिलः ॥ १०६ ॥
जीवातु--लतेति । लता एवाबलास्तासां लास्यकलासु मधुरनृत्तविद्यासु गुरुरुपदेष्टेति मान्द्योक्तिः, तरुप्रसूनगन्धोत्कराणां द्रुमकुसुमसौरभसम्पदा पश्यतोहरः पश्यन्तमनादृत्य हरः प्रसह्यापहर्तेत्यर्थः। 'पश्यतो यो हरत्यर्थं स चौरः पश्यतोहरः' इति हलायुधः, पचाद्यच् 'षष्ठी चानादरे' इति षष्ठी । 'वाग्दिक्पश्यद्भयो युक्तिदण्डहरेष्वि'ति वक्तव्यादलुक् । सौरभ्ययुक्तं मधुमकरन्द एव गन्धवारि गन्धोदकं तत्र प्रणीतलीलाप्लवनः । एतेन कृतलीलाव