________________
नैषघमहाकाव्यम्
1
तदुक्तं 'मेषामिषाम्बुसं सेकस्तत्केशा मिषधूपनम् । श्रेयानयं प्रयोगः स्याद् दाढमीफलवृद्धये ॥ मत्स्याज्यत्रिफलालेपैमसिंराजा विकोद्भवैः । लेपिता धूपिता सूते फलन्तालीव दाडिमी || अविक्वाथेन संसिक्ता धूपिता तप्तरोमभिः । फलानि दाडिमी सूते सुबहूनि पृथूनि च ।।' इति । तद्वति दाडिमीद्रुमे फलानि विदर्भसुभ्रुवो दमयन्त्याः स्तनयोर्या तुङ्गता तदाप्तये तादृगोन्नत्यलाभायेत्यर्थः । अलमत्यर्थन्तपस्यतस्तपश्च रतः, 'कर्मणो रोमन्थ तपोभ्यां वत्तिचरोरि'ति क्यङ्ग्प्रत्यये तपसः परस्मैपदञ्च वक्तव्यं घूमस्य दोहदधूमस्य घयन्तीति धयान् पातॄन्, धेट् - पाने अत्र 'आतश्चोपसर्ग' इति उपसर्गग्रहणान्नानुवत्ति - पक्षत्वात् 'पा' 'त्यादिनाऽनुपसृष्टादपि घेटः शप्रत्यय इति गतिः । अत एव काशिकायां केचिदुपसर्ग इति नानुवर्त्तयन्तीति । अधोमुखान् घानिव अपश्यदित्युत्प्रेक्षा । महाफलार्थिन इत्थमुग्रं तपस्यन्तीति भावः ॥
अन्वयः -- सः दोहदधूपिनि दाडिमे द्र मे विदर्भसुभ्रू स्तनतुङ्गतातये अलं तपस्यतः धूमस्य धयान् अधोमुखान् घटान् इव फलानि अपश्यत् ।
हिन्दी -- उस (नल ) ने दोहद अर्थात् अतिशय फल समृद्धि के लिए विहित सामग्री से धूपायित अनार के वृक्ष पर सुन्दर भ्रुकुटीवाली वैदर्भी ( दमयन्ती ) के स्तनों की उत्तुगता प्राप्त करने के निमित्त मानो कठोर तपस्या करते ( दोहद का ) घूम पीते नीचे को मुहवाले घड़ों के तुल्य फलों को देखा ।
टिप्पणी – पहिले फूल ( केतक ) का, फिर फल ( दाडिम ) का दर्शन । उत्प्रेक्षा अलंकार । समय से पूर्व ही फल पाने के निमित्त भाँति-भाँति के द्रव्यों के प्रयोग को दोहद कहते हैं । कहा जाता है कि भेड़ के मांस के पानी से सींचना और उसके केश जलाकर धूप देना दाडिम फल की समृद्धि के लिए लाभदायक होता है ॥ ८२ ॥
७४
वियोगिनीमैक्षत दाडिमीमसौ प्रियस्मृतेः स्पष्ट मुदीत कण्टकाम् । फलस्तनस्थान विदीर्णरागिहृद्विशच्छुकास्यस्मरकिंशुकाशुगाम् ॥ ८३ ॥
जीवातु - वियोगिनीमिति । असौ नलः प्रियास्मृतेर्दमयन्तीस्मरणादिव स्पष्ट व्यक्तमुदीतेति ई गताविति धातोः कर्त्तरि क्तः । उदीता उद्गता कण्टकाः स्वावयवसूचय एव कण्टका रोमाञ्चा यस्यास्तामिति श्लिष्टरूपकम् ।