________________
६२
नैषधमहाकाव्यम् क्षणादथैष क्षणदापतिप्रभः प्रभञ्जनाध्येयजवेन वाजिना। सहैव ताभिर्जनदृष्टिवृष्टिभिर्बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥६७॥
जोवातु--क्षणादिति । अथानन्तरं क्षणदापतिप्रभश्चन्द्रतुल्यस्तथा पुरुहूतपौरुषः इन्द्रस्येव पौरुषं कर्म तेजो वा यस्य तादृश एप नलः । प्रभञ्जनेन वायुना अध्येयः शिक्षणीयः जवो वेगो यस्य तथा विधेन वाजिना अश्वेन क्षणादिति-क्षणात्ताभिः पूर्वोक्ताभिः जनानां दृष्टिवृष्टिभिः दृक्पातैः सह जनदृश्यमान एवेत्यर्थः । बहिः पुरः पुरावहिः स्थितोऽभूदिति बहिर्योगे पञ्चमी । पूर्व पुरे दृष्टः क्षणादेव पुराबहिदृष्ट इति वेगातिशयोक्तिः ॥ ६७ ॥ ___ अन्वयः--अथ क्षणदापतिप्रभः पुरुहूतपौरुषः एषः प्रभंजनाध्येयजवेन बाजिना क्षणात् ताभिः जनदृष्टिवृष्टिभिः सह एव पुरः बहिः अभूत् ।।
हिन्दी-तदनन्तर निशानाथ चन्द्रमा की कांतिवाला, इन्द्रसम सामयंवान् वह नल आंधी भी जिससे तीव्रगामिता का अध्ययन करती थी, ऐसे तीव्रगामी अश्व पर आरूढ उन ( अपलक निहारती ) पुरजनों के दृष्टिपातों के साथ ही नगर से बाहर हो गया।
टिप्पणी--राजा के शीतल सौन्दर्य और सामर्थ्य और प्रजाजन का उसके प्रति अनुराग यहां द्योवित है, दृष्टिपातों का राजा के साथ ही बाहर चला जाना, जिसे व्यक्त करता है। विद्याधर ने यहां छेकानुप्रास उपमा-सहोक्ति के मंकर का निर्देश किया है, मल्लिनाथ ने वेगातिशयोक्ति का, चन्द्रकलाकार उपमा-अतिशयोक्ति की संसृष्टि मानते हैं ॥६७॥
ततः प्रतीच्छ प्रहरेति भाषिणी परस्परोल्लासितशल्यपल्लवे । मृपा मृधं सादिबले कुतूहलान्नलस्य नासीरगते वितेनतुः ॥६८।।
जीवातु--तत इति । ततः पुराद्वहिर्गमनानन्तरं प्रतीच्छ गृहाण प्रहर जहीति भाषिणी भाषमाणे इत्यर्थः । परस्परमन्योपरि उल्लासितानि प्रसारितानि शल्यपल्लवानि तोमराग्राणि याभ्यां ते तथोक्ते 'शल्यं तोमरमि'त्यमरः । नलस्य नासीरगते सेनाग्रवत्तिनी 'सेनामुखन्तु नासीरमि'त्यमरः । सादिबले तुरङ्गसैन्ये कुतूहलात् मृपा मृघं मिथ्यायुद्धं युद्धनाटकमित्यर्थः। वितेनतुश्चक्रतुः 'मृघमायो घनं संख्यमि'त्यमरः ॥ ६८ ॥