________________
प्रथमः सर्गः
३३
जीवातु-श्रियेति । तं नलम् आलोक्य दृष्ट्वा श्रिया सौन्दर्येण अहमस्य नलस्य योग्या अनुरूपा इति । धियेति शेषः स्वम् आत्मानं स्वावयवमित्यर्थः । ईक्षितुं द्रष्टुं करे घृता । गृहीतः दर्पणः भैमी भीमनन्दिनी दमयन्तीमित्यर्थः । विहाय विनेत्यर्थः कया सुरूपया शोभनरूपवती अहमित्यभिमानवत्या नाऱ्या अपदर्पया दर्पशून्यया सत्या श्वासेन दुःखनिश्वासेन मलीमसः मलदूषितः 'मली. मसन्तु मलिनं कश्चरं मलदूषितमि'त्यमरः। न कृतः ? अपि तु सर्वथैव कृत इत्यर्थः । सौन्दर्य्यगर्विताः सर्वा एव भैमीव्यतिरिक्ताः कामिन्यः तमवलोक्य अहमेवास्य सदृशीत्यभिमानात् करघृतदर्पणे आत्मानं निर्वर्ण्य नाहमस्य योग्येति निश्चयेन विषण्णाः कदुष्णनिश्वासेन तं दर्पणं मलिनयन्ति स्मेति निष्कर्षः।। ३१।।
अन्वयः--तम् आलोक्य 'अहं श्रिया अस्य योग्या'---इति स्वम् ईक्षितुं करे घृतः दर्पणा भैमी विहाय का अपदर्पया सुरूपया श्वासमलीमसः न कृतः ?
हिन्दी--उसे ( नल को ) देखकर 'मैं सौन्दर्य के कारण इसके योग्य हूँ'ऐसा विचारते अपने मुख ( अथवा सम्पूर्ण शरीर ) को निहारने के लिए हाथ में लिया दर्पण भीमसुता ( दमयन्ती ) को छोड़कर अन्य किस गतरूपदर्पा सुन्दरी ने निःश्वास से मैला नहीं किया ? सभी ने किया।
टिप्पणी--कोई सुन्दरी दर्पण में निहार कर अपने को नल के योग्य मानने का साहस न कर पायी और खिन्नता से निकली निःश्वास से हाथ का दर्पण धुंधला पड़ गया-इससे कवि का भाव यह है कि नल के अनुरूप भीमपुत्री वैदर्भी दमयन्ती ही थी, अन्य कोई सुन्दरी रूप-गुण में नल के योग्य नहीं थी। असम्बन्ध में सम्बन्ध कथन के कारण यहां अतिशयोक्ति है और विद्याधर के अनुसार व्यभिचारभाव गर्व की शान्ति ॥३१॥
यथोह्यमानः खलु भोगभोजिना प्रसह्य वैरोचनिजस्य पत्तनम् । विदर्भजाया मदनस्तथा मनोऽनलावरुद्धं वयसैव वेशित। ॥३२॥
जीवातु-एवमस्यालौकिकसौन्दर्यद्योतनाय स्त्रीमात्रस्य तदनुरागमुक्त्वा सम्प्रति दमयन्त्यास्तत्रानुरागं प्रस्तौति-यथेति । मदनः कामः प्रद्युम्न इति यावत् भोगभोजिना सर्पशरीराशिना वयसा पक्षिणा गरुडे नेत्यर्थः । ऊह्यमानः नीयमानः, वहेः कर्मणि यकि सम्प्रसारणे पूर्वरूपम् । अनलावरुद्धम् अग्निपरि
३ नं०