SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ किरातार्जुनीयम् __सं०व्या०-हे धर्मराज युधिष्ठिर ! राज्ञा यथाकालं पात्रानुरूपमवस्थानुरूपं च कोपः कार्यः। निग्रहानुग्रहसमर्थस्य विपत्विनाशकस्य च पुरुषस्य वशे सर्वे प्राणिनः स्वयमेव भवन्ति । अस्मिन् संसारे दृश्यते यत् क्रोधशून्यः पुरुषः मित्रैः सम्मानं न प्राप्नोति शत्रवश्च तस्मान्न न बिभ्यति । भवत्सदृशः यः पुरुषः यथाकालं न ऋध्यति सः प्रसन्नः भवतु अप्रसन्नः वा भवतु तं कोऽपि न गणयति । अतः भवता शत्रुषु क्रोधः कार्यः। स०-न वन्ध्यः अवन्ध्यः (नञ् समास), अवन्ध्यः कोपः यस्य स; अवन्ध्यकोपः तस्य अवन्ध्यकोपस्य (बहु०)। न मर्षः अमर्षः-(ना समास), अमर्षेण शून्य अमर्षशून्यः तेन (तृ० तत्पु०)। जातं हादं यस्य सः जातहार्दः (जातस्नेहः) तेन जातहार्देन (बहु०)। व्या०-विहन्तुः-वि+ हन् + तृच् + षष्ठी, एकवचन । वश्या:-वशं गच्छन्ति ये ते; वश+ यत् । हृदयस्य कर्म हार्दम् , हृदय+ अण् । टि०-(१) जिसका क्रोध व्यर्थ नहीं होता = जो क्रोध आने पर शत्रुओं को दण्ड दे सकता है (२) सभी प्राणी उस व्यक्ति के वश में हो जाते हैं जो (क) क्रोध आने पर शत्रुओं को दण्डित करने में समर्थ होता है और जो (ख) अपनी और दूसरों की विपत्तियों को दूर करने में समर्थ होता है। (३) जो क्रोध के समय भी क्रोध नहीं करता उसके मित्र उसका सम्मान नहीं करते और शत्रु उससे डरते नहीं। ऐसा व्यक्ति मित्र हो अथवा शत्रु हो-इसका कोई महत्व नहीं है। (४) नकार और जकार की अनेक बार आवृत्ति होने से वृत्त्यनुप्रास । घण्टापथ-अवन्ध्येति । अवन्ध्यः कोपो यस्य तस्य अवन्ध्यकोपस्य। अत एव आपदा विहन्तुः निग्रहानुग्रहसमर्थस्येत्यर्थः । पुंस इति शेषः । देहिनो जन्तवः स्वयमेव वश्याः वशङ्गता भवन्ति । 'वशं गतः' इति यत्प्रत्ययः। अतस्त्वया कोपिना भवितव्यमित्यर्थः। व्यतिरेके त्वनिष्टमाचष्टे-अमर्षशून्येन निःकोपेन जन्तुना । कन्यया शोक इतिवत् 'हेतौ' इति तृतीया । हृदयस्य कर्म हाद स्नेहः । 'प्रेमा ना प्रियता हार्द प्रेम स्नेहः' इत्यमरः । युवादित्वादण् । 'हृदयस्य हल्लेखयदण्लासेषु' इति हृदादेशः। जातहार्दैन जातस्नेहेन सता जनस्य आदरः न। विद्विषा
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy