________________
किरातार्जुनीयम् घण्टापथ-स इति । इद्धशासनः अप्रतिहताशः स दुर्योधनो नवयौवनोद्धर प्रगल्भम् । धुरन्धरमित्यर्थः। दुःखेन शास्यत इति दुःशासनस्तम् । 'भाषाय 'शासियुधि'-इत्यादिना खलर्थे युच्प्रत्ययः । यौवराज्ये युवराजकर्मणि । ब्राह्मणा दित्वात् ष्यत्र । निधाय नियुज्येत्यर्थः । पुरोधसा पुरोहितेन अनुमतोऽनुज्ञात: तस्मिन् याजके सतीत्यर्थः । तदुल्लंघने दोषस्मरणादिति भावः । 'निष्ठा' इति भूता थे क्तः । न तु 'गतिबुद्धि०' इत्यादिना वर्तमानार्थे । अन्यथा 'पुरोधसा' इत्यत्र'क्तस्य च वर्तमाने' इति पष्ठी स्यात् । अखिन्नोऽनलसः । मखेषु क्रतुषु । हव्येन हविषा । हिरण्यं रेतो यस्य तं हिरण्यरेतसं अनलं धिनोति प्रीणयति । धिन्वेः प्रीणनार्थाद् 'घिन्विकृण्व्योर च इत्युप्रत्ययः । अकारश्चान्तादेशः ॥२२॥ प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः। स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता वलवद्विरोधिता ॥ २३ ॥
अ०-सः प्रलीनभूपालं स्थिरायति आवारिधि भुवः मण्डलं प्रशासत् अपि त्वत् एष्यतीः भियः चिन्तयति एव । अहो बलवद्विरोधिता दुरन्ता ।
श०-सः = वह ( दुर्योधन )। प्रलीनभूपालं = विलीन (विनष्ट, नष्ट, समाप्त ) हो गए हैं (विपक्षी, शत्रुभूत ) राजा जिसमें, शत्रुभूत राजाओं से रहित । स्थिरायति = स्थिर ( निश्चित) है भविष्य (आयति) जिसमें, निश्चित भविष्य वाले, चिरस्थायी। आवारिधि = समुद्र तक, समुद्रपर्यन्त । भुवः मण्डलं = भूमण्डल को, पृथ्वी-मण्डल को। प्रशासत् अपि = शासन करता हुआ भी। त्वत् = तुम ( दुर्योधन) से, आप से, । एष्यतीः = आने वाली, उत्पन्न होने वाली । भियः =भयों, भय के कारणों, विपत्तियों को । चिन्तयति एव = सोचता ही है, चिन्तन (चिन्ता, विचार ) करता ही है। अहो = आश्चर्य है । बलवद्विरोधिता = बलवानों (प्रबलों, पराक्रमी व्यक्तियों) के साथ विरोध (शत्रुता, द्वेष)। दुरन्ता = दुःखान्त (दुःख में अन्त होने वाला) दुःखमय परिणाम (फल) वाला ( होता है)।
अनु०-शत्रुभूत राजाओं से रहित और स्थिर ( निश्चित ) भविष्य वाले समुद्रपर्यन्त भुमण्डल का शासन करता हुआ भी वह (राजा दुर्योधन)