________________
१२२
किरातार्जुनीयम्
शिथिलवसु शिथिलधनमन्यत्र शिथिलरश्मिम् | 'वसुदेवेऽग्नौ रश्मौ च वसु तोये घने मणौ' इति वैजयन्ती । 'शिथिलबलमिति पाठे तूभयत्रापि शिथिलशक्तिकमित्यर्थः । रिपुस्तिमिरमिवेति रिपुतिमिरम् । उदस्य निरस्य । उदीयमानम् उद्यन्तम् । 'ईङ् गतौ इति धातोर्दैवादिकात् कर्तरि शानच् । त्वां दिनादौ दिनकृतमिव लक्ष्मीः भूयः समभ्येतु भजतु । 'आशीषि लिङ्लो ' इति लोटू | चमत्कारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु लक्ष्मीशब्दप्रयोगः । यथाह भगवान् भाष्यकार : -- 'मङ्गलादीनि मङ्गलमध्यानि मङगलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत् पुरुषकाणि च भवन्त्यध्येतारश्च प्रवक्तारो भवन्ति' इति । पूर्णोपमेयम् । मालिनीवृतम् । सर्गान्तत्वाद्वृतभेदः । यथाह दण्डी—'सर्गेरनति विस्तीर्णैः श्राव्यवृत्तेः सुसन्धिभिः । सर्वत्र भिन्न'त्तान्तैरुपेतं लोकरञ्जनम्' इति ।
अथ कविः काव्यवर्णनीयाख्यानपूर्वकं सर्गपरिसमातिं कथयति — इतीत्यादि । इतिशब्दः परिसमासौ । भारविकृताविति कविनामकथनम् । महाकाव्य इति महच्छब्देन लक्षणसम्पत्तिः सूचिता । किरातार्जुनीय इति काव्यवर्णनीययोः कथनम्। प्रथमः सर्गः समाप्त इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् । किरातार्जुनावधिकृन्य कृतोऽयं ग्रन्थः किरातार्जुनीयम् । 'शिशुक्रन्दयमसभद्वन्द्वेन्द्र जननादिभ्यश्छः' इति द्वन्द्वाच्छ्प्रत्ययः । राघवपाण्डवीयमितिवत् । तथा ह्यर्जुन एवात्र नायकः, किरातस्तु तदुत्कर्षाय प्रतिभटतया वर्णितः । यथाह दण्डी - ' वंशवीर्यप्रतापादि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्षकथनं च धिनोति नः' इति । अथायं सङ्ग्रहः – 'नेता मध्यमपाण्डवो भगवतो नारायण त्यांशजस्तस्योत्कर्षकृते त्ववयततरां दिव्यः किरातः पुनः । शृंगारादिरसोऽगमत्र विजयी वीरः प्रधानो रसः शैलाद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः फलम्' इति ॥ ४६ ॥
इति श्रीमहामहोपाध्याय कोळाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय काव्यव्याख्यायां घण्टापथसमाख्यायां प्रथमः सर्गः समाप्तः ।
300